पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३४
श्रीपाञ्चरात्ररक्षा

मुखानिलदीपित[१] दीपं भवेत् । दुकूल क्षौम नेत्रम्, सूत्र वा कार्पासिकं सुगन्धधूपित नव वस्त्र भवेत् । हेम-रत्रमयमाभरणं दद्यात् । दोषयुत भुक्तपूर्व वा मनुष्यैर्नाभरणं भवेत्" । इति ।

 तदेतन्नानासहितापरामर्शसमुद्धृत सारम् [२] । अन्यदपि सर्व तत्तत्संहितासु विस्तरेण द्रष्टव्यम् । श्रीशाण्डिल्यस्मृतौ च काष्ठपर्यन्तवर्ज्यावर्ज्यद्रव्यविभाग कृत । श्रीविष्णुस्मृत्यादिषु प्राण्यङ्गसुगन्धेषु कस्तूरी-मृगमदयोरङ्गरागतया परिग्रह । अर्चाया शुक्लाम्वरसमर्पणं पद्म कह्लारेतररक्तपुष्पवर्जनमित्याद्यपि ग्राह्यम् । योगक्षेमार्थेश्वराभिगमनादिस्वरूपशोधन च पूर्वाधिकारसिद्ध न विस्मर्तव्यम्[३]

 एव द्रव्याण्यार्जयत प्रतिग्रहनियमश्च तत्र तत्र सक्षिप्त । यथोक्त

उपादाने प्रति
ग्रहनियम ।

श्रीशाण्डिल्यस्मृतौ--

"कुलटाषण्डपतित​वैरिभ्य[४] काकिणीमपि ।
उद्यतामपि गृह्णीयान्नापद्यपि कदाचन" ॥ इति । [५]

उक्त च श्रीसात्त्वते -

"तस्करात् पतितात् [६]षण्डाडुम्भलोभमदान्वितात् ।
मात्रावित्त न गृह्णीयादभक्तादुपचारत[७]" ॥ इति ।

  1. मुखानिलदीप्तिदीपित---क, ख, ग, च, झ, उखानलदीप्तिदीपित इति चेत् माधीयान्
  2. सारशब्द सर्वेषु कोशेषु नपुंसकान्तत्वेनैव लिखितोऽस्ति
  3. प्रस्मर्तव्यम्---घ, ड, छ
  4. स्वैरिभ्य--–शाण्डिल्यस्मृतिपाठ
  5. इत्यादि---घ
  6. चण्डात्-सात्त्वतसहितापाठ
  7. अपचारत---क, झ