पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३३
तृतीयोऽधिकारः

 पाणी प्रक्षाल्य पात्रे पुष्पाणि गृह्णीयात् । पिधाय स्थापयेदनातपे प्रदेशे[१] यथा न परिम्लायते । केवलपुष्पनिवेदनात् माला वरा । मालाया स्रग्वरा । एकगुणा माला, बहुगुणा स्रक् । तत्र सूत्रै पुष्पाणि न ग्र​थ्नीयात् निर्माल्यसमानि भवन्तीति । देवोद्दिष्टाना निन्दा न कुर्यात्, प्रशसामेव सर्वदा कुर्यात् । देवोद्दिष्टं मनुष्यो न गृह्णीयात् देवस्वं भवतीति । यत्किञ्चित्पीतवर्ण पुष्पं जलजं स्थलज वा तदापदि सग्राह्यम् । अनुक्तमपि नान्यत्र[२] । तत्रापि वर्जनीयानि विशेषेण वर्जयेत् ।

 कारण्ड[३] कृष्णवर्ण कपित्थ गिरिकर्णिकाम्र-विभीतक-शिरीष-मदयन्ति-निर्गुण्डि-सिन्दुवार-किशुक-शल्मली-जपार्क-कनकोन्मत्त-कारञ्ज-विषपादप-बन्धूक-माधवी-नीपार्जुन-पाटलि-चिञ्चा-कोशातक्यलाबू-शिग्रू[४] इत्येतानि वृक्षवल्लीषु विशेषेण[५] वर्जयेत् । यव-मुद्ग-प्रियड्गु-निष्पाव-शण-दूर्वा-भूतृण-माषाणामेवाड्कुराणि गृह्णीयात् । अन्येषामड्कुराणि निर्माल्यसमानि भवन्ति इति । अपामार्ग-सदाभद्रा-तुलसी-विल्वाश्वत्थ-पलाश-धातकी-तमाल-गन्धपूर्ण-कृष्णा-ब्राह्मी-शमीवृक्षाणामेव पर्णानि गृह्णीयात् । उत्पलानामेव मुकुलं गृह्णीयात् । पद्मोत्पलादीना जलजाना दिनद्वयादूर्ध्व पर्युषितत्वम् । सर्वेषा मूलानामुशीरमूलमेव विशिष्टम् । देवदारुकृतं धूप चन्दनागरुमिश्रितं विधूमाङ्गारसम्भव शस्तम् । सालसर्ज्जरस​ कृष्णागरुमिश्रित [६] प्राण्यङ्गवर्जितमन्य वा धूपं निवेदयेत् । पात्रे गव्येन सर्पिषा दिव्येन[७] तैलेनापि कृतं सूत्रवर्तियुतं

  1. अप्रतापे प्रदेशे---क, ख ग, च, झ
  2. अनुक्तमप्यन्यत्र---क, ख, ग, झ
  3. कोरण्ड---ग, घ, ड, छ
  4. शिग्रुशब्दस्य स्त्रीत्व चिन्त्यम् , शिग्रु इति क, ट, च कोशेषु पाठ
  5. विशेषेण इति पद घ कोश एव दृश्यते
  6. विधूमाङ्गारेत्यारभ्य कृष्णागरुमिश्रित इति यावत् ड छ कोशयो न दृश्यते
  7. दिव्येन इति पद घ कोशे नास्ति