पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३२
श्रीपाञ्चरात्ररक्षा

क्षुद्रकेतक्य इत्यादीनि पुष्पाणि । एतानि तिथिभेदेन ग्रहणायन-सङ्क्रान्ति-व्यतीपात-विपुवादिभेदात् सङ्गवादिकालविशेषाञ्च समग्रफलानि भवन्ति । तत्र तिथिपुष्पाणि---वैष्णवी कंदल[१] -पद्म-लक्ष्मी-सिन्दुवार-द्रोण-प्रियङ्गु-मालती-पाटल-केतकी-जातिमलिका-महाजाति-पलाशाश्वत्थपत्राणि तिथीनामानुपूर्व्येण पुष्पाणि गृह्णीयात् । नन्द्यावर्तकै सङ्क्रान्त्या भगवन्त पूजयेत् । उपनन्द्यावर्तकैरयने । विषुवे तुलसीभि । व्यतीपाते फणिज्जकै । ग्रहणे [२]मरन्दै (?) पूजयेत् । सङ्गवे [३]तत्तत्तिथिचोदित पुष्प गृह्णीयात् । समे पद्मै, धर्मे कुमुदै, करवीरैर्विष्णुप्रिये, बिल्वपत्रैर्विरागे भगवन्तं पूजयेत् ।

 अत्र सङ्गवादय काला अहरह प्रवर्तन्ते । सङ्गव समो विष्णुप्रियो धर्मो विराग इति पञ्च काला अध्यात्मविद्भिरुपदिष्टा । उदयात्पञ्चनाडीभ्य[४] सङ्गव उक्त । तस्माद्द्विगुणमात्रात्[५] सम उपदिश्यते । तावता विष्णुप्रिय । तावता धर्म । तावता विराग इति । तत्र पूर्वापरौ भूत्वा[६] नाडीद्वयत सङ्गवादयो मुहूर्ता उक्ता । तत्र सङ्गवे वैकुण्ठस्य प्रीति, समेऽनिरुद्धस्य, विष्णुप्रिये शिशुमारस्य, धर्मे बडबामुखाग्ने, विरागे कपिलस्येत्येवं पञ्चाना पञ्च प्रीतिकालविशेषा । दिवपुष्पैर्दिवापूजा मुख्या, रात्रिपुष्पैर्निशि, विहितेष्वपि, छिद्रं मुकुल जीर्ण पर्युषितं भुक्तशेष घ्रात परिम्लानमस्पृश्यस्पृष्ट जन्तुभिर्भक्षित[७]जन्तुभिरधिष्ठितमशुभदेशे पुष्पितमापद्यपि न गृह्णीयात् ।

  1. वैष्णव्ये, कदली---क, ग, च, झ, वैष्णव्ये कन्दल–--घ, ड, छ
  2. मरन्दै इत्येव बहुषु पाठ, मकरन्दै--–ड, छ, मन्दरकै मकरन्दै--–घ
  3. तत्तिथि---ग, घ
  4. नाड्य---क​, ख​, ग​, च​, झ
  5. द्विगुणमात्र---क, च, झ
  6. भूत्वा इत्येव सर्वत्र पाठ
  7. जन्तुभिर्भक्षित---क, ख, ग, घ, झ कोशेषु नास्ति