पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३१
तृतीयोऽधिकारः

नील श्याम[१]मिति । नीलं तापिञ्छादि[२] । श्यामं विष्णुक्रान्तादि[३] । फलमेषा भिद्यते---सात्त्विकादर्धफलानि राजसानि, तस्मादर्धफलानि[४]तामसानि इति । एतानि स्वारामोत्पादितानि[५]आरण्यानि, क्रीतानि, प्रतिग्रहाल्लब्धानि, याचितानि[६] ग्राह्याणि पञ्चविधानि पुष्पाणि । तत्र स्वारामजमुत्तमम् । आरण्य मध्यमम् । क्रीत[७]मधमम् । [८]याचितमधमाधमम्[९] । प्रतिग्रहपुष्पे दातुरेव फलम् । कर्तु किञ्चिद्भवेन्नवा । तस्मात् प्रतिग्रहलब्धै पुष्पैर्नार्चयेत् ।

 करवीरौ पद्मौ [१०] जाति-मल्लिकोत्पलानि तिन्त्रिणी[११]-तगर चम्पक-श्वेतार्क-कुटज-वकुल- [१२]कन्दली-तुलसी-तमाल-वनमाल[१३]-मरुवक-शमी-सिन्दुवार-पलाश-सहदेवी-फणिज्जक-पुन्नाग-वंशपुन्नाग-क्षुद्रपुन्नाग-मालती-श्वेतकुमुद-कन्दल-पद्म-महापुष्प​-नाग-सदाभद्रा-प्रियड्गु-बिल्व-वनमल्लिका-लक्ष्म्यगस्त्यद्वयं [१४]वैष्णवी कर्णिकार(रो) द्वावशोकौ कुटजस्तथा [१५] कारण्ड-नन्घावर्तद्बय -

  1. श्यामल---क, ड, च
  2. नील तापिन्छादि---ख, ग, च कोशेषु विमुक्तम्
  3. कृष्णश्याम विष्णुक्रान्तादि---च
  4. राजसादर्धफलानि---क, ख, ग, च, झ
  5. स्वारामोत्पन्नानि---क, झ, स्वारामोत्पन्नादीनि---च
  6. अयाचितानि---ख ग, घ, च, छ
  7. क्रयक्रीत---घ
  8. अयाचित---घ
  9. याचितमधमाधमम्---क, ख, ग, झ कोशेषु विमुक्तम्
  10. केतकीजाति---क, ख, ग, च, झ
  11. त्रीणि---घ
  12. क्दली---क, ख, ग, ड, च, छ, झ
  13. वनमाली---घ, ड, छ
  14. अतसीद्वय---छ
  15. लक्ष्म्यगस्त्यद्वयवैष्णवीकर्णिकाराशोककुटजस्तथा---क, ख, ग, च, झ