पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२६
श्रीपाञ्च​रात्ररक्षा

पाद्मे च आद्यन्तकर्मावच्छेदेन दर्शितम् ---

"कल्याणाचरणान्त यत् कर्मजात चतुर्मुख ।
उत्थानादिक्रमादेतदभियानमुदीरितम् ॥' इति ।

मन्ध्योपासनानन्तरकृत्य चैव विवृतम् ---

"अभिवाद्य गुरून् वृद्धास्तथा भागवतान् क्रमात्
प्रविश्य स्वाश्रम देवमभिगम्य यथाविधि ॥
अर्चयेज्जपहोमान्त दद्याद्ग्रास गवामपि ।
अञ्जनालेपनै स्र​ग्भिर्वासोभिर्भूषणैस्तथा ॥
अलक्तकरसाद्यैश्च ताम्बूलमुखशोधनै ।

उपेतो मङ्गलैरन्यैर्नयेदभिगमक्रियाम्” || इति | एतेन 'देवकार्य तत कृत्वा गुरुमङ्गलवीक्षणम्’ इति स्मृत्यभिप्रेतमपि विवृतम् । अत्र च उपेतो मङ्गलैैरन्यै[१] इति वचन तत्तदाश्रमाविरुद्धमङ्गलदेवतावल्लभ-गुरुपूजास्तुतिनमस्कारादिकमपि सगृह्णाति । 'ग्रास गवामपि' इत्येतच्च परगोविषयम् । 'ग्रासमुष्टि परगवे दद्याच्चैव न लोपयेत्' इति श्रीवैष्णवधर्मशास्त्रोक्ते । कृष्णकल्पेऽप्युक्तम्–-- 'दद्याद्ग्रासम्' इत्यारभ्य, गोषु चैव प्रसन्नासु गोपालोऽपि प्रसीदति' इति । गवादिषु चान्तस्थितो भगवान् भाव्य इति जयाख्यसहितायामुक्तम् ---

"सोमसूर्यान्तरस्थ च गवाश्वत्थाग्निम​ध्यगम् ।
भावयेद्भगवद्विष्णु गुरुविप्रशरीरगम्" ॥ इति ।

अतस्तत्र तत्र प्रयुक्तेष्वपि कर्मसु न देवतान्तरभजनरूपत्वप्रसङ्ग । एव व्यासाद्युक्तदेवादिनमस्का[२]रोपहारनिवेदन-पुष्पादिप्रदान-वृद्धाभिवादन-गुरूप-

  1. उपेतो मङ्गलैरन्यैर्नयेदभिगमक्रियाम् इति क, ख, ग, च, झ कोशेषु पूर्णमुपात्तम्
  2. देवतानमस्कार---क, ख, ग, च, झ, देवतादिनमस्कार—ड, छ