पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२४
श्रीपाञ्चरात्ररक्षा

पाषण्डावेक्षणादीनि वर्जयन्[१] यत्नतः पथि ।
ध्यायन्नारायणं देवं यागभूमिं समाश्रयेत् ॥
ततः प्रक्षाल्य चरणौ स्वाचान्तः सुसमाहितः ।
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथवा मुनिः ॥
समिदाज्यादिभिर्दव्यैर्मन्त्रैरपि यथोदितैः ।
हुत्वाग्नीनग्निहोत्रादावुक्तं कालमपि क्षिपन् ॥
पराराधनरूपेण कृतेनैव स्वकर्मणा ।
कृते निष्कल्मषे शुद्धे स्वस्मिन् मनसि सुस्थिते ॥
लब्धाधिकारो देवस्य ध्यानार्चनजपादिषु ।
विनिष्क्रम्याग्निशालाया गत्वा यागगृहं स्वकम् ॥
अर्चयित्वा परात्मानं देशकालाद्यपेक्षया ।
पत्रैः पुष्पैः फलैर्वापि पूजाकालोक्तवर्त्मना[२]
केवलाञ्जलिना वापि विहितेन यथा तथा" | इति[३]

 अत्र पराराधनरूपेण कर्मणा शुद्धान्तःकरणस्य ध्यानार्चनादिष्वधिकारविधानात् केषांचित् कुदृष्टीनां मतं निरस्तम् । उक्तं च कुदृष्टिमतोपन्यासमध्ये परकालसूरिभिः ।

स्तुतिजपनिजबिम्बालोकनध्यानसेवा-
 स्मृतिकथनसमर्चाकर्मभिः श्रौतदूरैः ।
वृषभशिखरिनाथः त्वामभीप्सन्ति केचि-
 च्छ्रुतिपथपरिनिष्ठप्रापणीयाङ्घ्रिपद्मम्" ॥ इति ।

  1. वर्जयेत्- क,ख,ग,च,झ
  2. पूर्वकालोक्तवर्त्मना-घ,ड,छ
  3. "इति" शब्दः च कोश एव दृश्यते