पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२२
श्रीपाञ्चरात्ररक्षा

उत्सवे वासुदवस्य यः स्नाति स्पर्शशङ्कया ।
स्वर्गस्था पितरस्तस्य पतन्ति नरके क्षणात् ॥
पिबेत् पादोदकं विष्णोर्वेष्णवानां विशेषतः ।
तत्र नाचमनं कुर्याद्यथा सोमे द्विजोत्तम ॥"

"इति श्रीवाराहे पुराणे धरणीप्रश्ने द्वात्रिंशदपचारो नाम पञ्चचत्वारिंशोऽध्यायः ॥" इति ।

 अन्यत्र[१] तु द्वात्रिंशदपचारा प्रकारान्तरेण पठ्यन्ते ।

प्रकारान्तरेण
द्वात्रिंशदपचारा

तत्र चात्र च उक्तानुक्तसमुच्चयः कार्यः । तत्रेयमेका प्रक्रिया ।

"अपचारास्तथा विष्णोर्द्वात्रिंशत् परिकीर्तिताः ।
यानैर्वा पादुकैर्वापि गमनं भगवद्गृहे ॥
देवोत्सवाद्यसेवा चाप्रणामश्च तदग्रतः ।
एकहस्तप्रणामश्च तत्पुरस्तात् प्रदक्षिणम् ॥
उच्छिष्टे चैव चाशौचे भगवद्वन्दनादिकम् ।
पादप्रसारणं चाग्रे तथा पर्यङ्कबन्धनम् ॥
शयनं भोजनं चैव मुधाभाषणमेव[२] च ।
उचैर्भाषा वृथाजल्पो रोदनाद्य च विग्रह ॥
निग्रहानुग्रहौ चैव स्त्रीषु साकूतभाषणम् ।
अश्लीलकथनं चैवाप्यधोवायुविमोक्षणम् ॥
कम्बलावरणं चैव परनिन्दा परस्तुतिः ।
शक्तौ गौणोपचारश्चाप्यनिवेदितभक्षणम् ॥

  1. अन्ये तु—क,ख,ग,च,झ.
  2. मिथ्याभाषणमेव च-घ,ड,छ