पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२१
तृतीयोऽधिकारः

 बधिरास्ते भविष्यन्ति मूका वै जन्मपञ्चकम् ।
पादौ प्रसार्य ये गेहे शेरते मे नराधमा ॥
लाला विसृज्य चोच्छिष्टा तेषां पापफलं शृणु ।
तोयहीनेऽतिरौद्रे च वने वै शून्यवृक्षताम् ॥
जायन्ते सप्त जन्मानि ततश्चण्डालतां ययुः[१]
दरिद्राश्चैव मूर्खाश्च भविष्यन्ति त्रिजन्मकम् ॥
अन्यदेवार्थसन्दिष्टैः पुष्पैर्यो मामथार्चयेत् ।
ममैव तु महागेहे मण्डूकत्वं व्रजन्ति ते ॥
जन्मद्वयं तु वै मूढा शूद्रतां यान्ति ते नराः ।
अन्यदेवगृहं गत्वा ह्यस्नात्वा यो व्रजेद्गृहम् ॥
ममैव वसुधे तस्य फलं पापस्य मे शृणु ।
गृहाद्गृहमथो गत्वा भिक्षार्थी क्षुधितः स्वयम् ॥
भिक्षामलब्ध्वा तत्रापि दरिद्रो जायते नरः ।
चत्वारि चैव जन्मानि तेषामन्ते च योऽबुधः ॥
चण्डालयोनिमाप्नोति जन्मानि दश पञ्च च ।
अन्यदेवसमं यस्तु मन्यते मां तु सोऽधम ॥
चण्डालयोनितां याति जन्मानि नव पञ्च च ।
कुसुमानां निवेद्यानां गन्धमाघ्राति यो नरः ॥
स पूतिगन्धसंयुक्तः कुष्ठी चैव धरे शुभे ।
भवति त्रीणि जन्मानि भवत्येव न संशयः ॥
विष्णुस्थानसमीपस्थान् विष्णुसेवार्थमागतान् ।
श्वपचान् पतितान् वापि स्पृष्ट्वा न स्नानमाचरेत् ॥

  1. ययुरित्येव सर्वत्र पाठः
16