पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११५
तृतीयोऽधिकारः

"बद्धाञ्जलिर्नमस्कुर्यात् स पञ्चाङ्ग उदाहृत[१]
पादौ हस्तौ प्रसार्यैव शेते भूमौ च दण्डवत् ॥
स दण्डाङ्गप्रणामः स्यात् प्रणामानेवमाचरेत्" ॥ इति ।

सङ्कर्षणसंहिताया सुकृतप्रणामप्रकरणे त्वेवं प्रणाम उक्तः –---

"ललाटोदरजान्वङ्घ्रियुगाग्रानूर्ध्वगौ करौ ।
भूमौ सन्धाय मनसा वासुदेवमनुस्मरन्" ॥ इति ।

एवं चाष्टाङ्गप्रणामः स्मर्यते -

"उरसा शिरसा वाचा मनसा च कपोलतः ।
पद्भ्यां कराभ्यां जानुभ्यां प्रणामोऽष्टाङ्ग उच्यते" ॥ इति ।

रहस्याम्नायब्राह्मणे च नमस्कारप्रकरणे ‘जानुभ्यां पाणिभ्यां शिरसा च नन्तव्यं भवति’ इत्यादिना पूर्णनमस्कारस्वरूपादिकमुपदिश्य तत्फलं चोक्तम्--‘सर्वैः करणैर्नमन् समग्रो नमति । समग्रो नमन् आप्तकारी भवति । आप्तकारी भगवन्तमाप्नोति’ इति । एवं द्वादशाङ्गप्रणामादिकं तत्र तत्र द्रष्टव्यम् । एकहस्तेन नमनं तु श्रीभागवते प्रतिषिद्धम्--

"एकेन पाणिना यस्तु प्रणमेत् पुरुषोत्तमम् ।
न्याय्यस्तस्य करच्छेद इति धर्मविदो विदुः ॥" इति ।

अञ्जलित्वमपि ह्यस्य[२] नास्ति । ‘तौ युतावञ्जलिः पुमान्’ इति नैघण्टुकपाठात् । चामरग्राहिणीप्रभृतीनां तु व्यापृतान्यहस्ततया एकहस्तनमनाभ्यनुज्ञा । अतोऽवज्ञादिमूलैककरनमने करच्छेददण्डानुशासनमिति

  1. उदीर्यते- घ,ड,छ
  2. अञ्जलित्वमप्यस्य- क,ख,ग,च,झ.