‘यथा तथा वापि सकृत् कृतोऽञ्जलि’ इत्यादीनामविरोधः[१] । योग्यतायां सत्यां द्वाभ्यां पाणिभ्यां प्रणमतोऽपि ऊनत्वमामनन्ति–"यदा ह्ययं केवलपाणिभ्यामेव नमति न जानुभ्यां न शिरसा, एकेन ज्ञानेन नमति स्पर्शविशेष[२]ज्ञानेन हीयते । इतराणि ज्ञानानि कर्मण । एकेन नमन् ऊनो नमति । ऊनो नमन् अनाप्तकारी भवति । अनाप्तकारी न भगवन्तमामोति" इति । आचार्यनामग्रहणे[३] भगवन्नामग्रहणे[४] च अञ्जलिबन्धादिकं तत्र तत्र ग्राह्यम् । दर्शितश्चायमाचारः सम्भवपर्वणि व्यासप्रस्तावे "महर्षेः कीर्तनात्तस्य भीष्मः प्राञ्जलिरब्रवीत्" इति ।
एवं यथार्ह प्रणम्योत्थितश्च[५] भगवतः पुरस्ताद्दक्षिणतोऽवस्थाय
भगवत्सेवाप्रकार ।
गुरुपरम्परया भगवन्तं शरणमुपगम्य पावन-मनोहरतद्दर्शनानन्दबृंहितसर्वाङ्गः प्रीतिपरीवाहरूपाणि स्तव्यस्तवप्रियवशीकरणानि स्तोत्राणि पठेत् । भगवदर्चावतारदर्शनमाहात्म्यं[६] चैवमुक्तं श्रीपौष्करे ------
"सन्दर्शनादकस्माच्च पुंसां संमूढचेतसाम् । |
अन्यत्र तु महतामपि पातकानां प्रायश्चित्ततया विधीयते । "अहरेकं हरेर्बिम्बमापीठादवलोकयेत्" इति ।