पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११४
श्रीपाञ्चरात्ररक्षा

न यानपादुकारूढो न सोपानत्कपादभृत् ।
न विक्षिप्तमना भूत्वा सविशेद्भगवद्गृहम् ॥" इति ।

 तत्र च प्रदक्षिणानि प्रणामाश्च युग्मान् कुर्यात् । ‘एकत्रिपञ्चसप्तादिगणना विषमं हि यत्' इति विषमप्रतिषेधात् । 'प्रवेशे निर्गमे चैव विष्वक्सेननति चरेत्' इति विधानात् विष्वक्सेनं तत्तद्द्वारपालाश्च प्रणम्यानुज्ञाप्य तत्र तत्र प्रविशेत्[१]

"चक्रवद्भ्रामयेन्नाङ्गं पृष्ठभागं न दर्शयेत् ।
पश्चाद्भागेन निर्गच्छेद्देवतासन्निधौ सुधीः ॥" इति ।

 प्रविष्टश्चाष्टाङ्गेन तत्तद्देशकालशक्येन मस्तिष्क-सम्पुट-प्रह्वाङ्ग-पञ्चाङ्ग

प्रणामप्रकारा ।

दण्डाङ्गादिषु अन्यतमेन वा प्रणमेत् । तत्राष्टाङ्गप्रणामम् ----

मनोबुद्ध्यभिमानेन सह न्यस्य धरातले ।
कूर्मवच्चतुरः पादान् शिरस्तत्रैव पञ्चमम्" ॥


इति सात्वतोक्तमुदाहरिष्यति भाष्यकारः । मस्तिष्कादिपञ्चकं तु श्रीवैखानसशास्त्रे पठितम् --

स मस्तिष्कप्रणामः स्यादञ्जलिं मस्तके न्यसेत् ।
प्रणामः सम्पुटः स स्याद्ध्रृदयेऽञ्जलिमर्पयेत् ॥
प्रह्वाङ्गः सम्पुटं कुर्यात् सा प्रह्वाङ्गनमस्क्रिया ।
पादाङ्गुलिभ्यां जानुभ्यां शिरसा चावनिं स्पृशन्" ॥

  1. अनुज्ञाप्य तत्र प्रविशेत्-क, ख, ग, झ