पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११३
तृतीयोऽधिकारः

 "तत आधारशक्त्यादीन् सर्वान् पारिषदान्तकान् ।
सपीड्य तीरे तद्वस्त्रं पुनगाचम्य वाग्यत ।
पाषण्डादिभिरालापदर्शनादीनि वर्जयेत्" ॥ इति ।

 यथोपदिष्टसन्ध्यानादरे च दोषं स्मरन्ति -

सन्ध्यानादरे दोषः ।

"अनागता तु ये पूर्वामनतीता तु पश्चिमाम् ।
सन्ध्या नोपासते विप्रा कथं ते ब्राह्मणाः स्मृताः ॥
सायं प्रातः सदा सन्ध्या ये न विप्रा उपासते |
काम तान् धार्मिको राजा हीनकर्मसु[१] योजयेत्” ॥ इति ।

 स एष सन्ध्याक्रमः ।

 अथ ब्रह्मयज्ञ प्रत्यक्षतैत्तिरीयश्रुत्याद्यनुसारेण उदित आदित्ये कुर्यात्,

ब्रहायज्ञ ।

माध्यन्दिनानन्तर वा भोजानात् पूर्वमेव[२] यत्र क्वचिदवसरे वा ।


 तीर्थस्रानसमनन्तरं महाभारतोक्तप्रकारेण तीर्थासन्नविष्ण्वायतनं च

तीर्थासन्नभगव-
दालयप्रणाम ।

नमस्कुर्यात् । भगवन्मन्दिरप्रवेशदशाया कर्तव्यस्य दिङ्मात्रं दर्शितं श्रीसात्त्वते ----

"प्रासादं देवदेवीयमाचार्य पाञ्चरात्रिकम् ।
अश्वत्थं च वटं धेनुं सत्समूहं गुरोर्गृहम् ॥
दूरात् प्रदक्षिणं कुर्यान्निकटात् प्रतिमा विभो ।
दण्डवत्प्रणिपातैस्तु नमस्कुर्याच्चतुर्दिशम्" ॥

  1. शूद्रकर्मसु - घ,ड,छ
  2. माध्यन्दिनानन्तरमेव वा भोजनात् पूर्वं वा- क,ख,झ
15