पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०९
तृतीयोऽधिकारः

 एवम्--

“विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः ।
उपांशु स्याच्छतगुण सहस्रो मानस म्मृत ।
उच्चैर्जपादुपाशु स्याद्विशिष्टो दशभिर्गुणै ।
जिह्वाजप शतगुण सहस्रो मानस स्मृतः" ॥

इत्यादिकमपि द्रष्टव्यम् ।

 एवमासूर्योदयात् ‘पूर्वोत्तराशाभिमुखस्त्वपरोत्तरदिङ्मुख' इत्यादि

सूर्योपस्थानम् ।

स्मृत्यनुसारेण प्राङ्मुख प्रागुदङ्मुखो वा तिष्ठन्,गायत्रीमावर्त्य, पूर्ववत् कृतप्राणायामत्रय,सन्ध्योपस्थानसङ्कल्पपूर्वकम् ‘उत्तमे शिखरे' इति मन्त्रेण गायत्रीमनुज्ञाप्य, स्वसूत्रोक्तैर्मन्त्रैरादित्यमण्डलान्तस्थित भगवन्तमुपस्थाय, सप्रदक्षिणं भगवदात्मकसन्ध्यादिपञ्चकनमस्कारं कृत्वा, ‘स यश्चायं पुरुषे यश्चासावादित्ये स

एक’ इत्यधीतं हृदयान्तस्थितं परमात्मानमभिवाद्य प्रणम्य, दिगादि[१] नम- स्काराणामपि स्वपूर्वपूर्वोपदेशानुष्ठानपारम्पर्यमस्ति चेत्तत्रापि भगवदात्मकध्या- नपूर्वक प्रणमेत् । एवं तु उपस्थानप्रकार पितामहः सनत्कुमारायाह---

" एताभि प्राञ्जलिर्नित्यं विस्पष्टोदितमण्डलम् ।
सहस्ररश्मि भगवन्त[२]मुपतिष्ठेद्दिवाकरम् ॥
ततस्तस्मै नमस्कृत्वा सन्ध्याद्या पञ्च देवता ।
प्रदक्षिणनमस्कारैर्दिशश्चैवोपतिष्ठते ।
परमात्मानमात्मानं भावयित्वा द्विजोत्तम[३]" ॥ इति ।

  1. नमस्कारमपि पूर्वपूर्वोपदेश-क, ख, ग, च, झ
  2. भर्ग त-च
  3. द्विजोत्तम-ख, ग, घ