पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०८
श्रीपाञ्चरात्ररक्षा

प्रतिष्ठाविशेषादिनियमाश्च तत्र तत्र प्रपञ्च्यन्ते । करेऽपि शङ्खपद्ममुद्रादिभेदाश्च[१] । तत्रैष सार –

“कनिष्ठामूलमारभ्य प्रादक्षिण्यक्रमेण तु ।
अनामिकान्त देवेश[२] जपेत् कोटिसहस्रकम्' । इति

 बोधायनीये तु श्रीमदष्टाक्षरविधावेवमुक्तम् -

"क्रियायागाद्दशगुणो जपयज्ञः प्रकीर्तितः ।
उच्चाच्छतगुणो ज्ञेय उपांशुश्चेत् स्मृतस्तदा ।
उपांशोर्मानस प्रोक्त सहस्रगुणतोऽधिक" ॥ इति ।

 अन्यदपि तत्रोक्तम् -

"जपमध्ये गुरुर्वापि वैष्णवो य समागत ।
सभाषणादिपूजा तु तस्य कृत्वानुमान्य च ।
अनुश्राव्य तत कृत्वा जपशेष समाहित ॥
सर्वस्य प्रभवो यस्माद्विष्णुपादश्रया नरा ।
तन्मूलतः क्रिया सर्वा सफलास्तु भवन्ति हि" ॥ इति ।

 नारदीये श्रीमदष्टाक्षरब्रह्मविद्यायाम् -

"सर्व सप्रणवो जप्यो जपादप्रणवादपि ।
सहस्र इति विज्ञेय प्रणवो ह्यक्षरं परम् ॥
असंख्याताच्च संख्यात सहस्रगुण उच्यते ।
संख्यातादपि साहस्र सोर्ध्वपुण्ड्रतनोर्जप"॥

इत्युक्तम् ।

  1. शङ्खपद्ममुद्राश्च- ड, छ
  2. देवेशि- घ, ड, छ