पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०७
तृतीयोऽधिकारः

"न च क्रमन्न च हसन्न पार्श्वमवलोकयन् ।
न पदा पादमाक्रम्य न चैव हि तथा करौ"।।

इत्यादयश्च जपकालनियमाः ।

अष्टाक्षरजप ।

"मद्भक्ता ये नरश्रेष्ठ मद्गता मत्परायणाः ।
मद्याजिनो मन्नियमास्तान् प्रयत्नेन पूजयेत् ॥
तेषां तु पावनायाहं नित्यमेव युधिष्ठिर ।
उभे सन्ध्येऽधितिष्ठामि ह्यस्कन्नं तद्व्रतं मम ॥
तस्मादष्टाक्षरं मन्त्र [१] मद्भक्तैर्वीतकल्मषैः ।
सन्ध्याकालेषु जप्तव्यं सततं चात्मशुद्धये" ॥

इति श्रीवैष्णवधर्मशास्त्रोक्तश्रीमदष्टाक्षरजपोऽपि यथाशक्ति सन्ध्यायामवसरे कार्यः[२] । प्राणायामेन शतकृत्व प्रणव-व्याहृतिसभेदविशेषेण दशकृत्वो गायत्रीजपं सहस्रतुल्यं बोधायनादय स्मरन्ति । एवमेकपादस्थित्यासनविशेषस्वगृह-तटाकाश्वत्थमूल-देवायतनादिस्थानभेदेषु च फलतारतम्यं स्मर्यते । तत्रैषा काष्ठा –‘अनन्त विष्णुसन्निधौ' इति । गणनाया च कराक्षसूत्रयोर्यथाशक्ति विकल्पत करणत्वम् । उक्तं च जयाख्यसंहितायाम् ‘जपं तु द्विविधं कुर्यादक्षसूत्रकरार्पितम्' इति । अक्षसूत्रार्पितं करार्पितं वेत्यर्थ । तदेव विशेषितं श्रीसात्त्वते–“ स्फाटिकेनाक्षसूत्रेण स्वकैर्वा करपर्वभिः" इति । अत्र स्फाटिकेनेत्यक्षमालावर्गोदाहरणम् । शास्रान्तरेषु पद्माक्षमालादीनामाधिक्यस्मरणात् । फलविशेषार्थं तु मणिमुक्तामयाद्यक्षमालाभेदा ।

  1. अत्र च मन्त्रशब्दः सर्वेषु कोशेषु च नपुंसकान्तत्वेन दृश्यते
  2. सन्ध्यायामेव कार्य इति च-कोशे पाठान्तरतया निदिष्टम्.