पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०६
क्षीपाञ्चरात्ररक्षा

 एवं स्नात कृतोर्ध्वपुण्ड्र स्नानाङ्गं भगवदात्मकदेवर्षिपितृतर्पणं कृत्वा

सन्ध्योपासनम् अर्घ्यदानं च ।

आचम्य, मन्त्रप्रोक्षण-मन्त्राचमन-पुन प्रोक्षण-स्वात्म परिषेचनानि स्वसूत्रसहितोक्तप्रकारेण कृत्वा,[१] गायत्र्याभिमन्त्रितजलमादित्यान्तःस्थिताय परमात्मनेऽर्घ्यरूपं दद्यात् । अत्र जलाञ्जलिप्रक्षेपस्त्रिरिति सनत्कुमाराय पितामहः प्राह -

"उभाभ्यां तोयमादाय हस्ताभ्यां सुसमाहितः ।
गायत्र्या चाभिमन्त्र्यापस्तारव्याहृतिपूर्वया ।
रवेरभिमुखस्तिष्ठन्नूर्ध्वं त्रिः सन्ध्ययोः क्षिपेत् ॥" इति ।

ततो वज्रीभूततज्जलनिहतमन्देहाख्यरक्षोनिरसनपाप्मावधूननार्थं प्रदक्षिणं प्रक्रम्य,[२] मार्गशीर्षादिमासेशान् केशवादीन्[३] तत्तन्मन्त्रेण तर्पयित्वा,

प्राणायाम-गायत्री
जपौ ।

“सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
त्रि पठेदायतप्राण प्राणायाम स उच्यते" ॥

इत्युक्तप्रकारेण प्राणायामत्रयं कृत्वा,[४]गायत्रीमावाह्य, अष्टोत्तरसहस्रमष्टोत्तरशतं यथाशक्ति दशावरां वा[५] गायत्री जपेत् ।

  1. कृत्वा—इति पदं घ कोशादन्यत्र विमुक्तम्
  2. परिक्रम्य- क, च, झ
  3. केशवादीन् इति पदं घ कोश एव विद्यते
  4. इत्युक्तप्रकारेण दशवारं प्राणायामत्रयं वा कृत्वा-च,झ
  5. अष्टोत्तरसहस्रमष्टोत्तरशतं यथाशक्ति दशवारां गायत्रीं—क, ङ, च, छ, झ, अष्टोत्तरसहस्रमष्टोत्तरशतं यथाशक्ति गायत्रीं-ख, अष्टोत्तरसहस्रमष्टोत्तरशतं वा गायत्रीं-ग अष्टोत्तरसहस्रमष्टोत्तरशतं यथाशक्ति दशावरं वा गायत्रीं-घ, अष्टोत्तरसहस्रमष्टोत्तरशतं वा यथाशक्ति गायत्रीं—इति निक्षेपचिन्तामणौ