पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०३
तृतीयोऽधिकारः

भादिदशासु तत्तत्तरुपर्णैर्स्तृणैर्वा तेषामप्यभावे द्वादशगण्डूषैर्मुखशुद्धि । उक्त चैव नारायणमुनिभिः-

"तीर्थ सशोध्य सक्षाल्य पादावाचम्य वाग्यत ।
तृणैर्वा शास्त्रससिद्धैर्वटार्कखदिरादिभिः ।
दन्तान् सशोध्य निर्लिख्य जिह्वा गण्डूषयन्मुहु " ॥ इति ।

स्मरन्ति च-----

" अलाभे दन्तकाष्ठाना प्रतिषिद्धदिनेष्वपि ।
अपा द्वादशगण्डूषैर्मुखशुद्धिर्भविष्यति" ॥ इति ।

अत्र--

प्रतिपत्पर्वषष्ठीषु चतुर्दश्यष्टमीषु च ।
दन्ताना काष्ठसंयोगो दहत्यासप्तमं कुलम् ॥
अष्टम्या च चतुर्दश्या पञ्चदश्या त्रिजन्मसु ।
तैल मास व्यवाय च दन्तकाष्ठ च वर्जयेत्” ॥

इत्यादिभि प्रतिषिद्धदिनानि ग्राह्याणि । दन्तशुद्ध्यनन्तर दन्तकाष्ठ क्षाल- यित्वा भड्क्त्वा शुद्धस्थले प्रक्षिपेत् ।

 तत्र यच्छुद्धे पूर्व जलाशयगमनमुक्त तत्र भागवत भागवताश्रित

स्नानार्हतीर्थम् ।

च तीर्थ विवक्षितम् । यथाहु -" तीर्थ भागवत शुद्धमुपगच्छेन्मनोहरम्" इति । " ततस्तीर्थ समाश्रित्य शुद्ध भागवताश्रितम्" इति च । स्मरन्ति च----

" जल शुद्धमशुद्धं वा विष्णुवास्तुसमीपतः ।
विष्णुगङ्गासम तीर्थ महापातकनाशनम् ॥