पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०२
श्रीपाश्चरात्ररक्षा

अत्र अर्कादिभिरित्युक्त तत्रैव विवृतम्----

" अर्कन्यग्रोधखदिरकरञ्जककुभादिकम् ।
शरजोदुम्बराश्वत्थ प्लक्षदर्भाश्च वैणवान् ॥
आम्राङ्कुरमपामार्गमर्जुन धातकी शमी [१]
अन्यानि च पवित्राणि तेषु सम्पन्नमाहरेत् ॥ इति ।

अत्राभक्षणीयस्यापि काष्ठस्य भक्षणोक्ति भक्षणवदाद्यन्ताचमनादिप्राप्त्यर्था । पाद्मेष्वेव दन्तधावनमुक्तम्------

" आचम्य प्राङ्मुखो भूत्वा दन्तधावनमाचरेत् ।
न्यग्रोधोदम्बराश्वत्थप्लक्षाम्रार्जुनधातकी ॥
पलाशवेणुखदिरशमीदारूणि धावने ।
दन्तानामुदितान्येकादश चाम्भोरुहासन ॥
दन्तधावनकाष्ठं च द्वादशाङ्गुलमायतम् ।
दशाङ्गुल तथा मानमष्टाङ्गुलमथायतम् ।
ब्राह्मणक्षत्रियविशा क्रमेणैतदुदाहृतम्' || इति ।

अत्र सर्वत्र प्रतिषिद्धाना [२] वर्जनं सर्वत्र विहिताना[३]मुपादानं च , क्वचिद्विहिताना क्वचिच्च प्रतिषिद्धाना गत्यभावे ग्रहणमिति निष्कर्ष । एव सर्वत्र भाव्यम् ।

 यथोक्तलक्षण च दन्तकाष्ठं समन्त्रक गृहीत्वा - आयुर्बलम्' इत्यादिस्मार्तमन्त्रपूर्वक प्रादक्षिण्येन प्रथममधरतो दन्तधावन कुर्यात् । काष्ठाला-

  1. धातकी शमी इति पदद्वयमपि प्रथमान्तत्वेनैव सर्वेषु कोशेषु दृश्यते
  2. सर्वप्रतिषिद्धाना-च ड, छ
  3. सर्वविहिताना-घ, ड, छ