बुद्बुदाद्यैर्विनिर्मुक्तं पिबेद्विप्रो हृदा तत ॥
एकैका ह्रासयेन्मात्रा वर्णत्रयमनुक्रमात् ।
पाणिना क्षालितेनैव पुनराचामयेद्बुध ॥” इति ।
|
आचमनप्रकाराश्च बहुधा धर्मशास्त्रेषु भगवच्छास्रेषु च प्रतिपादिताः । तत्र
स्वसूत्रोक्तमन्यद्वा यथाशक्त्यधिगम[१]माचमन कुर्यात् । आचमनोक्त्यनन्तरं च पारमेश्वरे दन्तधावन-मुखशोधनप्रकार उक्त --
"एव प्रक्षाल्य विधिवदाचम्य प्रयत शुचि ।
प्राङ्मुखोदङ्मुखो वापि उपविश्यासने तत ॥
अर्कादिभिरपामार्गै कारयेद्दन्तधावनम् ।
प्रातर्हृत्वा च मृद्वग्रं कषायकटुतिक्तकम् ॥
भक्षयेद्दन्तकाष्ठं च दन्तमासान्यबाधयन् ।
द्वादशाङ्गुलमात्रं तु वक्रग्रन्थिविवर्जितम् ॥
पयोभि सह तर्जन्या ब्रह्मन् द्वादशसख्यया ।
काष्ठालाभे तु रोगे वा कर्तव्यं दन्तधावनम् ॥
षोडशाङ्गुलदीर्घैस्तु वक्रग्रन्थिविवर्जितै ।
हेमादिनिर्मितैर्वापि कुशदर्भादिभिस्तथा ॥
जिह्वानिर्लेखन चैव गण्डूषमुखधावनम् ।
कुर्यादाचमनं विप्र शुचिना [२] सलिलेन च" ॥ इति ।
|
- ↑ यथाधिगम-क, ख, ग, च, झ
- ↑ शुद्धेन-घ, ड, छ