पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१००
श्रीपाञ्चरात्ररक्षा

पञ्चापाने मृत्तिका स्युस्तथैवान्तरमृत्तिकाः ।
दश वामकरे देयाः सप्त तूभयहस्तयो ॥
पादाभ्या तिसृभि शुद्धिर्जघाशुद्धिश्च पञ्चभि ।
नियोजयेत्ततो विप्र [१] कट्या वै सप्त मृत्तिका ॥
स्वदेहस्वेददोषघ्ना बाह्यकर्दमशान्तये ।
भक्ताना श्रोत्रियाणा च वर्षास्वेव निरूपितम् ॥
प्रावृडुक्तात्तु वै तस्मादेकमृद्व्यपनोदनम् ।
शरद्ग्रीष्मवसन्तेषु नित्य कार्य क्रियापरै ॥
[२]एतस्मादपि चैकैका परिलुप्या [३] तु मृत्तिका ।
हेमन्तशिशिरे विप्रैः [४] श्रोत्रियै सयमस्थितै ॥
पथि शौच प्रकर्तव्य देशकालानुरूपत ।
गन्धलेपमपास्यैवं [५] मन शुध्या विशुध्यति ॥
विहिता पादशौचे तु बिडालपदसमिता ।
मृदश्चतुर्द्विजेन्द्राणा त्रिर्द्विरेका क्रमात्तत ॥
वर्णाना शूद्रनिष्ठाना कटिशौचे तथैव हि ।
सप्त सप्त उभाभ्या तु कराभ्या त्रितय पुन ॥
सर्वेषामेव सामान्य पाणिशौचमुदाहृतम् ।
अन्तर्जानुगत कृत्वा भुजयुग्म द्विजोत्तम ॥
चतुर्धा मणिबन्धस्थ तोय कृत्वा सुनिर्मलम् ।

  1. विप्र- घ, ड, छ
  2. एकस्मात्-क, ख, ग, च, झ
  3. परिपाल्या—घ कोशादन्यत्र
  4. विप्र- घ, ड, छ
  5. अपास्यैव- क, ख, ग, च, झ