पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९८
श्रीपाश्चरात्ररक्षा

इति ब्रह्म-रुद्रोपलक्षितविश्वसृष्टिरक्षाहेतुत्वात् , केशिवधोपलक्षितसर्वदुष्टदमनस्वभावत्वाच्च असहायदशा[१]साहाय्यार्थ तदा तच्चिन्तनम् ।

 तत स्वाश्रमादिभ्यो बहि नैर्ऋत्या दिशि द्वित्रेषुपातप्रमिता भुवमतिक्रम्य, शुद्धदेशे निक्षिप्तस्नानोपकरणो यथोक्तनियमैर्विण्मूत्रविसर्जन

विण्मूत्रविसर्जन
शौचविधिश्च।

कृत्वा, स्ववर्णाश्रमावस्थाद्यनुगुणादृष्टार्थमृत्सख्यावर्णपरिमाणादि-नियमवद्गन्धलेपक्षयकरम् अर्श पीडादिरहित शौच कुर्यात् । अत्र मूत्र-पुरीषयोरेकस्य प्रवृत्तौ तस्यैव शुद्धि । क्रमेणोभयप्रवृत्तौ यथाक्रमम् । युगपत्प्रवृत्तौ पुरीषशुद्धि प्रथममिति [२] निष्कर्ष ।

 तत्र पाद्मे [३] --- उपवीत कर्णदेशे निधाय च तृणादिना' इत्यादिना विण्मूत्रविसर्जनप्रकारमुक्त्वा [४] अनन्तरमेव शौचविधिरुक्त ।

" दक्षिणेतरहस्तेन गृहीत्वा मेहन तत ।
दक्षिणे मृत्तिका हस्ते समुत्थाय जलाशयम् ॥
प्रागुदीच्यामुदीच्या वा गत्वा शौच समाचरेत् ।
मृत्तिकाभिर्द्वादशभिर्गुद षड्भिश्च मेहनम् ॥
अन्तरा चान्तरा वाम कर प्रक्षाल्य वारिभि ।
तन्मात्राभिस्तदन्ते द्वौ करौ द्वादशसख्यया ॥
सशोध्य च करौ जघे कटि चोरू च वारिभि ।
प्रत्येक मृत्तिकामात्राचतुष्केण विशोधयेत्" ॥ इति ।

  1. साहाय्यार्थ च इति चेत् सम्यक्
  2. निष्कर्षका -घ, ड, छ
  3. तत्रैव पाद्मे-क, ख, ग, च, झ
  4. अनन्तरमेव-क, च, झ.