पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९७
तृतीयोऽधिकारः

क्षितिधरमनुध्यायन् वामपाद भूमौ विन्यस्येत् । ततो भूधरमन्त्रेण वामपाद भुवि' इत्यपि स एव मन्त्र उच्यते । तत्र क्षितिधारणसाम्यात् कूर्मादिरूपान्तरशङ्काव्युदासाय 'श्रीमद्वराहमन्त्रेण न्यस्येद्वामपद भुवि' इति विशेषशब्देन व्याचख्यु । महावराहमहिष्या भुव प्रपदनं चात्र महाभारतादिषु समन्त्रकमुपदिश्यते--' नमोऽस्तु प्रियदत्तायै तुभ्य देवि वसुन्धरे ।' इति । पृथिव्या प्रियदत्तेति कीर्तन च विष्णो ब्रह्मण्यदेवेति कीर्तनवत् अनवसादहेतुत्वेन स्मर्यते ।

"पृथिवीं प्रियदत्तेति गायन् सर्वसहेति वै ।
विष्णुं ब्रह्मण्यदेवेति [१] कीर्तयन्नावसीदति ॥” इति ।

तत पदक्रमान् कुर्वन् विष्णुक्रमणमन्त्रेण पादेन्द्रियाधिदैवत त्रिविक्रम विष्णु ध्यायेत् । 'क्रान्ते विष्णु बले हरिम्' इति पदविक्षेपे विष्णोरनुध्येयतोक्ते तदनुसन्धानस्य च तत्तदुचितशास्त्रीयप्रकाशकसापेक्षत्वात् । इति सन्ध्यापूर्वकालकर्तव्यक्रम ॥

 ततः स्नानीयदर्भतिलवस्त्रादिक दृष्टादृष्टार्थ स्नानोपकरण सर्व समाहृत्य तमस्तिरोहितदुष्टजन्तुपलायनार्थ निर्गममार्ग सचालयेत । यथोक्त

स्रानाय निर्गमन
केशवध्यान च।

पारमेश्वरे---- बहिर्निर्गममार्ग तु सचाल्य' इत्यादि ततो गृहान्निर्गच्छन् केशवमनुध्यायेत् । ' व्रजश्चिन्तय केशवम्' इति स्मरणात् । केशवशब्देन 'अशवो ये प्रकाशन्ते', ' यदादित्यगत तेज ' इत्याद्युक्ताशव उच्यन्ते , तद्वत्त्वात् केशव । गच्छतो मार्गादिप्रकाशनार्थ दिड्मोहाद्यान्तरतमोनिरासार्थम् ,

"क इति ब्रह्मणो नाम ईशोऽह सर्वदेहिनाम् ।
आवा तवाङ्गे संभूतौ तस्मात् केशवनामवान् " ॥

  1. कीर्तनवत् इत्यारभ्य ब्रह्मण्यदेवेति इति यावत् क, ख, ग, झ कोशेषु विमुक्तम् ।
13