पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९६
श्रीपाञ्चरात्ररक्षा

यथास्थितक्रमेणैव भेदास्त्वेतान्’ [१] हरेर्विभो ।
नमस्कुर्यात् प्रभातं तु योगान्ते तु दिनक्षय ॥
शब्देनोच्चतरेणैव सहृष्टिजनकेन तु ।
स्तोत्राणि चाथ मन्त्राणि मन्त्राणि [२] उदीर्यान्यानि वै तत ' ॥ इति ।

एव च सगृहीत वङ्गिवशेश्वरै----

चिकीर्षन्नीप्सित कर्म तन्नामान्यनुकीर्तयेत् ।
चतुर्भिर्वासुदवाद्यैर्नामभि सह सयत ॥
जपेत् द्वादशनामानि केशवादीनि चादरात् ।
दशावतारनामानि मत्स्यकूर्मादिकान्यपि ।
जपन्नुत्थाय शयनादर्चयिष्यन् सदा हरिम् ' ॥ इति ।

 एवमुचैस्तरेण [३] श्रृण्वतामपि सकलदुरितहारिणा [४] हरिसकीर्तनेन

सन्ध्यापूर्वकाल-
कर्तव्यकम ।

सहृष्टमानस सन्ध्यायामासन्नायाम् सन्धातृत्वेन सर्वेषा सन्ध्येति परिकीर्तित भगवन्तमुपासितु जिगमिषु

हरि हरि ब्रुवस्तल्पादुत्थाय भुवि विन्यसेत् [५]
नम क्षितिधरायोक्त्वा वाम पाद महामते ' ॥

इति पारमेश्वरादिपठितेन नम पूर्वेण क्षितिधरलिङ्गेन मन्त्रेण महावराह

  1. भेदास्त्वेते-ड, छ
  2. मन्त्रणि इति नपुसकान्तत्वेनैव सर्वेषु कोशेषु दृश्यते
  3. उचैस्स्वरेण-च
  4. दुष्कृतहारिणा-घ
  5. हरि नानुसन्धाय इति पूर्वार्धस्थाने 'हरि ब्रुवस्तल्पादुत्थाय' इति क, च, झ, कोशेषु दृश्यते