पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९५
तृतीयोऽधिकार

चोदित समुचित भगवन्मन्त्र जपेत् । वेदाभ्यासं च[१] यथाबलमाचरेत् । तत्र वासुदेवादिकल्किपर्यन्तसंकीर्तनं प्रणवपूर्वकमन्त्रात्मक पारमेश्वरे प्रोक्तम्--

" सप्रबुद्ध प्रभाते तु उत्थाय शयने स्थित ।
नाम्ना संकीर्तन कुर्यात् षोडशाना प्रयत्नत ॥
ओ नमो वासुदेवाय नम सङ्कर्षणाय ते ।
प्रद्युम्नाय नमस्तेऽस्तु अनिरुद्धाय ते नम ॥
क्रमश केशवादीना यावद्दामोदरं द्विज[२]
नमो नम केशवाय नमो नारायणाय च ॥
माधवाय नमश्चैव गोविन्दाय नमस्तत ।
विष्णवेऽथ नमस्कुर्यो नमस्ते मधुसूदन ॥
नमस्त्रिविक्रमायाथ वामनाय नमस्तत ।
श्रीधराय नमश्चाथ हृषीकेशाय ते नम ॥
नमस्ते पद्मनाभाय नमो दामोदराय च ।
दिव्यानामवताराणा दशानामथ कीर्तनम् ॥
एकशृङ्गादिकाना तु विहितं क्रमश प्रभो ।
नमस्ते मीनरूपाय कमठाय नमस्तत ॥
नमोऽस्त्वादिवराहाय नरसिहाय ते नम ।
नमो वामनरूपाय नमो रामत्रयाय च ॥
कुठारज्याहलास्त्राय नम कृष्णाय वेधसे ।
कल्किन् विष्णो नमस्तेऽस्तु सर्व सप्रणवं द्विज ॥

  1. तत्कालचोदित भगवन्मन्त्र वेदाभ्यास च - क, कालोचित समुदित भगवन्मन्त्रजपवेदाभ्यास च-ख, ग, तत्कालचोदित समुचितभगवन्मत्रजप वेदाभ्यास च-घ, च, झ तत्काले चोदित-ड, छ.
  2. द्विज क, ख, ग, च, झ