पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९०
श्रीपाञ्चरात्ररक्षा

उत्थाय शयने तस्मिन्नासीनो नियतेन्द्रियः ।
त्रस्तनिर्विण्णहृदयो व्यर्थ वीक्ष्य गतं वय " ॥

इत्यादिभि, "दुस्तरा दुर्दशामेता कथयिष्यामि कस्य वा” इत्यन्तैरधिकविशै श्लोकै । यद्यपि मुमुक्षो परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नामस्त्यकृत कृतेन । तद्विज्ञानार्थ स गुरुमेवाभिगच्छेत् ' इति प्राथमिकगुरूपसत्तिकालात् पूर्वमेव तृणीकृतहिरण्यगर्भादिभोग परिपूर्णो निर्वेद संवृत्त , तथापि विषमविपाकविशेषगुणत्रयाश्रयभूतप्रकृतिसबद्धतया सम्भावितविषयसंगादिदोषपरिहाराय तथाविध एव निर्वेदोऽनुवर्तनीय । अगीयत चास्य नित्यानुवर्तनीयत्वममानित्वादिगुणगणमध्ये---- " जन्ममृत्युजराव्याधिदुखदोषानुदर्शनम्' इति । अत सिद्धोपायस्यापि पराड्कुशपरकालादीनामिव भगवदनुभवविच्छेदकतया हेयतमरजस्तमोमयनिद्रादिप्रतिकूलवर्गप्रवाहानुवृत्तिदर्शनेन संसारवैराग्योपचयार्थम् अहरहस्तदुचितावसरेषु निर्वेद कर्तव्य एव ।

 एव सति विवेकविमोकादिसप्तकान्यतमभूतानवसादविरुद्धावसाद-

सात्विकधृत्य-
वलम्बनम्।

वशादुत्तरकैङ्कर्यप्रवृत्तेरनिष्पत्ति स्यादिति तत्परिहारायानन्तरमुच्यते----


" इति निर्विद्य तदनु धृतिमालम्ब्य सात्त्विकीम् ।
विधूय चेम निर्वेद सर्वकार्यावसादकम् " ॥

इत्यादिना गतजलसेतुबन्धनाभिलाषतुल्यानुतापप्रशमनपूर्वकं सात्त्विकधृत्यवलम्बनात्मकागामिकालशक्यकैङ्कर्यनिश्चय । सात्त्विकधृतिस्वरूप चैव [१] भगवता गीतम्------

  1. चेद-क, ख, ग, ड, च, छ, झ