पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९१
तृतीयोऽधिकार

"धृत्या यया धारयते मन प्राणेन्द्रियक्रिया ।
योगेनाव्यभिचारिण्या धृति सा पार्थ सात्त्विकी" ॥ इति ।

सात्त्विकधृतिप्रकार ।

 स च निश्चयप्रकार एवं तत्कालोचितकर्तव्यविभागेन सगृहीत -

इत ऊर्ध्वमह तावद्यावज्जीव श्रिय श्रिय ।
पदयोरर्चन कर्तु यतमान समाहित ॥
अभिगच्छन् हरि प्रात पश्चाद्रव्वाणि चार्जयन् ।
अर्चयश्च ततो देवं ततो मन्त्रान् जपन्नपि ॥
ध्यायन्नपि परं देवं कालेषूक्तेषु पञ्चसु ।
वर्तमान सदा चैव पाञ्चकालिकवर्त्मना ॥
स्वार्जितैर्गन्धपुष्पाद्यै शुभै शक्त्यनुरूपत ।
आराधयन् हरि भक्त्या गमयिष्यामि वासरान्’ ॥ इति ।

अत्र इत ऊर्ध्वम् ' ' यावज्जीवम् ' 'सदा' इत्यादय शब्दा कैङ्कर्यप्रारम्भदिवसे तावत् स्वरसवाहिन । उत्तरोत्तरदिवसेप्वपि निरुपाधिककैङ्कर्योपचयसिद्ध्यर्थ निर्वेद विषयतयानुवर्तमानाना भगवदासक्तिविरोधिनामान्तराणाम् , अष्टादशचण्डाल-षड्वृषलादिशब्दव्यपदेश्याना दोषविशेषाणा नि शेषनिवृत्तिलक्षणवैशिष्ट्यलाभार्थ प्राज्ञप्रज्ञापहारकप्रबलतर[१]विषयेन्द्रियादिमूलसमावितपाक्षि[२]ककैङ्कर्यविच्छेदपरिहारार्थ चेदप्रथम प्रवर्तमोनेनैव [३] मनोरथानुवर्तनं कार्यमेव । अत एव नारायणमुनिभिरपि --

  1. प्रबलतर-क, ख, ग, च, झ कोशेषु नास्ति
  2. मूलभूतपाक्षिक-घ, ड, छ
  3. इदप्रथमप्रवर्तनेनैव-क, ख, ग, च, झ , इदप्रथम प्रवर्तमानेनैव तथैव-च