पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८८
श्रीपाञ्चरात्ररक्षा

"ब्राह्मे मुहूर्ते संप्राप्त उत्थाय शयनात्तत ।
स्नात्वाभ्यर्च्य जगन्नाथं समिदाधानमाचरेत्" ॥

इत्यादिना । तदिद संहितान्तरेषु विस्तृतम् । अत्र हरिर्हरिर्हरिरिति मुहु संकीर्तयन् हरिमेव चिन्तयन्नुत्तिष्ठेत् । अत्र हरिशब्दसंकीर्तनं सप्तकृत्व इति श्रीमद्गृध्रसरोमुनिभिर्नित्यक्रमसग्रहे [१] निबद्धम् । उत्तिष्ठतश्च हरिशब्दपूर्वकभगवदनुस्मरण श्रीविष्णुधर्मे भगवता शौनकेनोक्तम्----

"उत्तिष्ठश्चिन्तय हरि व्रजश्चिन्तय केशवम् ।
भुञ्जंश्चिन्तय गोविन्द स्वपश्चिन्तय माधवम्" ॥ इति ।

सर्वकर्मारम्भावसानेषु च हरिसस्मरण तेनैव स्वकीयसूत्रेऽप्युक्तम्–“हरिमेव स्मरेन्नित्य कर्मपूर्वापरेषु च ’ इति । स च निद्रानन्तरमनुस्मर्तव्यो हरि, 'नरो नारायणश्चैव हरि कृष्णस्तथैव च' इति धर्मदेवतात्मजत्वेन [२] स्मर्यमाणेषु भगवदवतारेषु तृतीय इति सम्प्रदाय , गजेन्द्रमोक्षकश्चैव ।

"ग्राहग्रस्ते गजेन्द्रे रुवति सरभसं तार्क्ष्यमारुह्य धावन्
 व्याघूर्णन् माल्यभूषावसनपरिकरो मेघगम्भीरघोष ।
आबिभ्राणो रथाङ्ग शरमसिमभय शङ्खचापौ सखेटौ
 हस्तै कौमोदकीमप्यवतु हरिसावंहसा सहतेर्न" ॥

स खलु तमोमयग्राहग्रस्तस्वाश्रितगजेन्द्रमोचक सुषुप्तिरूपस्वेतरदुर्निवारतमोग्राहग्रस्तजन्तुजालमोचकत्वेनानुसन्धीयते । तमधिकृत्यैव पौराणिकोपजप्य 'प्रात स्मरामि' । इत्यादिश्लोकत्रय प्रभाते सर्वै पठ्यते । तत्फलश्रुतौ च हरिरित्येव भगवान्निर्दिष्ट-

  1. नित्यकर्मसग्रहे— क, ख, ग, च, झ
  2. धर्मदेवतात्मकत्वेन-क, झ