पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७४
श्रीपाञ्चरात्ररक्षा

इत्यन्तेन सग्रहेण देवतार्चन[१]-भोजनपर्यन्तमुक्तम् । तत्रापि अवान्तरपर्वभेदेन द्विधा विभक्तोऽय काल एव 'इज्याकाल' इत्येकीकृत्य निर्दिश्यत इति न विरोध । अत्र देवसंविभागशब्दनिर्दिष्टमर्थमुत्तरत्र देवतार्चनशब्देन विशेषयामास –' सन्ध्या स्नान जपो होम स्वाव्यायो देवतार्चनम्' इति ।

 एवम् 'इतिहासपुराणाभ्या षष्ठ सप्तममभ्यमेत्' इत्युक्त कालद्वय

दक्षोक्तपष्ठसप्तम-
कालकृत्यस्य स्वाध्या-
येऽन्तर्भाव । अष्टम-
कालोक्तलोकयात्रा
तु न परमैकान्ति-
नाम् ।

स्वाध्यायकाल इत्येकीकृतम् । अत्र मात्रया कालवै[२]षम्य मतभेदादुपपद्यते । 'अष्टमे लोकयात्रा तु बहिसन्ध्या तत पुन ' इत्युक्तलोकयात्राकालविभागस्तु लोकपराङ्मुखे भगवदेकान्तिनि नातीवापेक्षित इति तदनुक्ति । यथोक्त पूर्वेश्रवे[३]-----

"गुरोर्गुरौ सन्निहिते वृत्ति कार्या यथा गुरौ ।
विद्यागुरुष्वनन्येष्वप्यन्या[४] वृत्ति स्वयोनिषु" ॥ इति

उक्त ज ब्रह्मविद्भिः------

"अद्यप्रभृति हे लोका यूय यूयं वय वयम् ।
अर्थकामपरा यूय नारायणपरा वयम् ॥
नास्ति सगतिरस्माक युष्माक च परस्परम् ।
वय तु किङ्करा विष्णोर्येयमिन्द्रियकिङ्करा " ॥ इति ।

'अहेरिव गणाद्भीत' इत्यादिषु च भिन्नशीलगुणपरिहार उपदिश्यते । सन्यासप्रकरणे 'समानशीलै सहवासो न दोषाय' इति कपिलानुशिष्टस्य

  1. देवार्चनादिक-घ, ड, छ, ज
  2. कालत्रयवैषम्य-क, ख, ग, च
  3. पूर्व (ग्रन्थे) श्रवे— च
  4. विद्यागुरुषु चान्येषु-क, ख, ग