इत्यन्तेन सग्रहेण देवतार्चन[१]-भोजनपर्यन्तमुक्तम् । तत्रापि अवान्तरपर्वभेदेन द्विधा विभक्तोऽय काल एव 'इज्याकाल' इत्येकीकृत्य निर्दिश्यत इति न विरोध । अत्र देवसंविभागशब्दनिर्दिष्टमर्थमुत्तरत्र देवतार्चनशब्देन विशेषयामास –' सन्ध्या स्नान जपो होम स्वाव्यायो देवतार्चनम्' इति ।
एवम् 'इतिहासपुराणाभ्या षष्ठ सप्तममभ्यमेत्' इत्युक्त कालद्वय
दक्षोक्तपष्ठसप्तम-
कालकृत्यस्य स्वाध्या-
येऽन्तर्भाव । अष्टम-
कालोक्तलोकयात्रा
तु न परमैकान्ति-
नाम् ।
स्वाध्यायकाल इत्येकीकृतम् । अत्र मात्रया कालवै[२]षम्य मतभेदादुपपद्यते । 'अष्टमे लोकयात्रा तु बहिसन्ध्या तत पुन ' इत्युक्तलोकयात्राकालविभागस्तु लोकपराङ्मुखे भगवदेकान्तिनि नातीवापेक्षित इति तदनुक्ति । यथोक्त पूर्वेश्रवे[३]-----
"गुरोर्गुरौ सन्निहिते वृत्ति कार्या यथा गुरौ । |
उक्त ज ब्रह्मविद्भिः------
"अद्यप्रभृति हे लोका यूय यूयं वय वयम् । |
'अहेरिव गणाद्भीत' इत्यादिषु च भिन्नशीलगुणपरिहार उपदिश्यते । सन्यासप्रकरणे 'समानशीलै सहवासो न दोषाय' इति कपिलानुशिष्टस्य