पौरुषस्य तु वाक्यस्य "केवलं मनुजैर्यत्तु कृतं तत् पौरुषं भवेत्" इति पृथङ्निर्देशात् ।
"सर्वत्र पौरुषे वाक्ये तद्ग्राह्यमविरोधि यत् । |
इति हि पौरुषसंज्ञितैः वाक्यैः [१] विरुद्धाविरुद्धांशसद्भावोऽत्र दर्शितः । अतः सात्त्विक-राजस-तामससंज्ञानिवेशोऽत्र सत्त्व-रजस्तमः प्रचुरतत्तत्फलसिद्धिविशेषतारतम्याभिप्रायेणेति मन्तव्यम् ।
कार्त्स्न्येन हि भगवच्छास्त्रस्य प्रामाण्यं प्रागेव प्रतिपादितम् । न चात्र भगवद्व्यतिरिक्तब्रह्मादिपुरुषकृताशेषु कारणदोषः संभवति । 'पञ्चरात्रस्य
कृत्स्नं पञ्चरात्रं प्रमाणम् ।
कृत्स्नस्य वक्ता नारायणः स्वयम्' इति स्ववक्तृके शास्त्रे भगवतैव तेषामृषीणां तत्तत्पुण्यविशेषानुसारेण नित्येऽपि वेदे सूत्रकाण्डमन्त्रकृत्त्ववत् संहिताकर्तृत्वस्याधिकारतया समर्पितत्वात् । यथा च व्यासोक्ते महाभारते वैशम्पायनसंहिताभेद [२] एवमत्रापीति न सङ्कटः किंचित् । अतः कृत्स्नं पञ्चरात्रं प्रमाणम् । तस्यावान्तरसंहिताभेदः ऋगादिवच्चतुर्धावस्थितः ।
असाङ्कर्येण सिद्धान्तानाम् अनुवर्तने फलम् ।
तद्वदेव यथाधिकारं व्यवस्थितानुष्ठानतया सिद्धान्तादिसङ्करपरिहारेणैव सर्वदानुवर्तनीयम् । [३] तथानुवर्तनं यथाधिकारं साक्षात् परम्परया वा सद्ब्रह्मवासुदेवाख्यपरमपुरुषार्थप्राप्तिसा [४] धनमिति सिद्धम् ॥