पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४
श्रीपाञ्चरात्ररक्षा

पञ्चकालव्यवस्थित्यै वेङ्कटेशविपश्चिता ।
श्रीपञ्चरात्रसिद्धान्तव्यवस्थेयं समर्थिता ॥

अहितविहतिदीक्षै [१] र्बाहुभिर्व्यूहभेदैः
निगमनिजमतैश्च [२] व्यक्तभूमा चतुर्भिः ।
प्रथमयुगसमग्रं धर्ममम्यस्यमानान्
प्रशमितकलुषान् [३] न पातु वैकुण्ठनाथः ॥

इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
वेदान्ताचार्यस्य कृतिषु श्रीपाञ्चरात्ररक्षायां

सिद्धान्तव्यवस्थापनाख्य [४]

प्रथमोऽधिकारः ।



  1. दक्षे- क, ग, ड, च, छ, झ
  2. निजनिगमशतैश्च-क, ग, निजनिगममतेश्च-ख, झ
  3. कलुषो वा- घ, ड, छ, ज
  4. व्यवस्थाख्यः- घ, ड, ज, व्यवस्थानाख्यः– छ