पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४२
श्रीपाञ्चरात्ररक्षा

 केचित्तु-

उत्कृष्टशास्त्रपरिग्रहस्य
अधिकारिविशेषः
विषयत्वं वा ।

"मुनिवाक्योक्तमार्गेण पूजनं यत्र वर्तते ।
तत्रापि दिव्यमार्गाच्चेत् पूजनं कर्तुमिच्छति ।
मुनिवाक्यं परित्यज्य दिव्यमार्गेण पूजयेत् ॥"

इत्यादीनां वचनानामधिकारिविशेषविषयतया व्यवस्थामिच्छन्ति । “व्यामिश्रयागमुक्तैस्तु तीव्रभक्तिसमन्वितैः" इति प्रक्रमात् ऐहिकामुष्मिकसांसारिकफलविरक्तानाम् अपवर्गासन्नतमशास्त्रपरिग्रहस्य युक्तत्वाच्च । तत्तत्तन्त्रोक्तसांसारिकफलसक्तानां तु यथापूर्वं परिग्रह इति ।

 न चात्र राजसतामससंज्ञितेषु शास्त्रेष्वंशतोऽप्रामाण्यमाशङ्कनीयम् ।

सात्त्विकादिशास्त्र-
त्रयमपि प्रमाणमेव ।

"स्यान्नागर-द्राविड-वेसर [१] च क्रमेण वै सत्त्व-रजस्तमासि ।
महीसुरोर्वीषति-वैश्यकास्ते हरिर्विधाता हर आदिदेव ॥"

इति विमानक्रियादिविषयोत्तम-मध्यमत्वादिविवक्षया सत्त्वादिगुणोक्तिवत् इहापि तद्विवक्षया [२] तद्गुणोक्तेः । प्रमाणभूतशास्त्रविषयेष्वेव सात्त्विक-राजस-तामसविभागस्य "यजन्ते सात्त्विकाः देवान् यक्ष-रक्षांसि राजसाः" इत्यादिभिर्भगवद्गीतायामपि प्रतिपादितत्वात् । अप्रामाणभूतस्य [३]

  1. द्रावलवैशस—ग
  2. सत्त्वादिगुणोक्तिवत् इहापि तद्विवक्षया-क, ख, ग, ड, च, छ, ज, झ कोशेषु नास्ति ।
  3. अप्रामाण्यस्य- क, ख, ग छ, ज, झ