पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४१
प्रथमोऽधिकारः

मुनिभाषितेषु त्रिषु शास्त्रेषु उत्कृष्ट-मध्यमाधमगुण [१] संज्ञानिर्दिष्टेषु अपकृष्टगुणसंज्ञितशास्त्रप्रवृत्तिस्थाने तत्परित्यागेनापि उत्कृष्टगुणसंज्ञितशास्त्रेण पूजाद्यं सिद्धिदम् । उत्कृष्टगुणसंज्ञितशास्त्रप्रवृत्तिस्थाने तद्विपरीतेन शास्त्रेण पूजनादिकं न कर्तव्यम् । [२] समगुणसंज्ञितानां चान्योन्यं न सङ्करं कार्यं इत्युक्तम् । इहापि 'यत्र' इति सामान्येन निर्दिष्टेऽपि प्रागुक्तन्यायेन प्रभूतानुभावतया सर्वसहस्वयंव्यक्तक्षेत्रविशेषविषयत्वं मन्तव्यम् । न तु सार्वत्रिकत्वम् ।

 यद्वा चिरकालराष्ट्रक्षोभादिना विच्छिन्नपारम्पर्यप्रत्यभिज्ञानेषु स्थानेषु

प्राक्प्रवृत्तापकृष्टशास्त्र-
प्रत्यभिज्ञानेऽपि दिव्य
स्यापरित्याज्यत्वं वा ।

किंकर्तव्यतामूढान् प्रति पूर्वमपकृष्टशास्त्रप्रवृत्तावपि तदज्ञानदशायामुपप्लवाभिसन्ध्यभावात् सर्वाधिकारिणा मुख्यानामुत्कृष्टशास्त्रपरिग्रहौचित्यमिहोच्यते । तत्र पुनः कुतश्चित् प्रमाणात् प्राक्प्रवृत्तशास्त्रपरिज्ञाने, दिव्यस्यापरित्याज्यत्वं च । इदं च तत्रापि इत्यतिवादलिङ्गात् अपिशब्दात् सूच्यते । अपिशब्दस्यातिवादलिङ्गत्वं 'चण्डालमपि वृत्तस्थं तं देवाः ब्राह्मण विदुः' इत्यादि प्रयोगेषु प्रसिद्धम् । अत एव ह्यत्रैव पुनः सङ्करपरिहारे संरम्भः क्रियते ।

"भेदं दिव्यादिकं सम्यग्ज्ञात्वा सर्वं समाचरेत् ।
यो न ज्ञात्वा तु साङ्कर्यात् पूजाद्यमनुतिष्ठति ॥
स हि सर्वस्य जगतः साङ्कर्यं कुरुते सदा ।
विशेषात् स्वस्य वंशस्य तस्मादापद्यपि द्विजः ॥
न कुर्याच्छास्त्रसाङ्कर्यं हितैषी शास्त्रकोविदः ॥" इति ।

अतो यथोक्त एवार्थ ।

  1. गुण-क, ख, झ, ग कोशेषु नास्ति
  2. ननु समानगुणसंज्ञितानां-ग, ननु गुणसंज्ञितानामित्येव- ख, च