पृष्ठम्:श्रीपरात्रिंशिका.pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९१
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

यच्च ध्यानधारणासमाधिसंयमेन तत्प्रविभागपर्यन्तपरलाभः' स कथमस्फुटवर्णरूपत्वातिरेकिविहगादिकूजितज्ञानाय पर्यवस्येत् , यदा तु त एव वर्णा वर्णानामेव परमार्थतोऽर्थतादात्म्यलक्षणं वाचकत्वं तदा युक्त्या त एव विहगादिरुतज्ञानं भीर्यादिशब्दा अपि हि अर्थवन्त एव-जयाजयसूचकतयोपदेशात् विहगादिरूतवत्, तदभिप्रायेणैव शिक्षासूत्रकारसूत्राणि हविसर्जनीयावुरस्यावेकेषां रदनमूलमेकेषाम् इत्यादीनि वाचकीभवन्ति न तु अपरथा कथंचिदपि, अत एव किंचिद्वैचित्र्यमालम्ब्यान्यत्वम् अन्यत्वं चाशङ्कमानैः विसर्जनीयाज्जिह्वा-

१तन्त्रयमेकत्र संयम इति संयमलक्षणम् । २ यदुक्तम् 'हकारं पञ्चमैर्युक्तमन्तःस्थाभिश्च संयुतम् । उरस्यं तं विजानीयात् कण्ठ्यमाहुरसंयुतम् ॥' इत्यादि । तथा 'कण्ठोक्तहविसर्गाणां स्वैर्भागैः स्थानमिप्यते । हविसर्गावुरास्थौ हि कण्ठाधोभागजौ मतौ ॥ इति। .