पृष्ठम्:श्रीपरात्रिंशिका.pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९०
परात्रिंशिका

'निरोधिनीमनुप्राप्तः शब्दः शुमशुमायते ।'

इत्याद्युक्तम् - घण्टाकांस्यादिध्वनीनां श्रोत्रघट्टनादीनां च नादोपदेशे निरूपणात्

'हयो हेपति यद्वच्च दान्त उद्रवतीव च ।
सिंहो गर्जति यद्वच्च उष्ट्रः सीत्कुरुते यथा ।।
तथोदीर्य पशोः प्राणानाकर्षन्ति बलाधिकाः ।
महामन्त्रप्रयोगोऽयमसाध्याकृष्टिकर्मणि ।'

इत्युक्तं गुह्ययोगिनीतन्त्रे, तत्रोपायमात्रमेतत् । वस्तुतस्तु 'आन्तर एवासौ नादात्मा मन्त्र' इति तु कथ्यमानं भवद्भिरपि अस्माभिरपि व्यक्तवर्णमालादिमन्त्रेष्वपि न न संचारयितुं शक्यते, तस्मात् अव्यक्तो वर्णात्मैव शब्दो यथा विदूरगतोऽपि घटो घट एव इति स्थितं, स च प्राणभीर्यादिभेदेन स्थानान्तरमपि अनुसरन् स एवेत्यपि स्थितम्, अत एवेदानीं सर्वभूतरुतज्ञानं यच्छेषमुनिना भगवतोपदिष्टं तद्धृदयंगमीभूतम् , अन्यथा 'शब्दार्थप्रत्ययानां य इतरेतराध्यासो

१ स चेति वर्णास्मा शब्दः।