पृष्ठम्:श्रीपरात्रिंशिका.pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९२
परात्रिंशिका

मूलीयोपध्मानीयौ, अनुनासिकेभ्यः पञ्चयमान् , डकारढकारयरलवक्षकारेभ्यः तानेव लघुप्रयत्नतरान् भेदेनाभिमन्य चतुःषष्टिर्वर्णा उक्ताः, अन्यत्वं चात्र स्वरव्यञ्जनयोरिव ऋवर्ण-रशब्दयोः श्रीत्रिकरत्नकुलेऽपि उक्तम्

अष्टाष्टकविभेदेन मातृका या निरूपिता ।
तदेव कुलचक्रं तु तेन व्याप्तमिदं जगत् ।।"

इति, मातृकाज्ञानभेदे विस्तरतो निरूपितमेतत्,

१ ङुं ञुं णुं नुं मुमित्येवंरूपान् । २ यस्योच्चारणे जिह्वाग्रोपाग्रमध्यमूलानां शैथिल्यं जायते स लघुप्रयत्नतरः इति । ३ यदुक्तं साम्बपञ्चाशिकायां 'या सा मित्रावरुणसदनादुच्चरन्ती त्रिपष्टिं वर्णानत्र प्रकटकरणैः प्राणसङ्गप्रसूतान् । तां पश्यन्तीं प्रथममुदितां मध्यमां बुद्धिसंस्थां वाचं वक्त्रे करणविशदां चैखरी च प्रपद्ये ॥' इति । ४ तदुक्तम् इच्छा कामो विषं ज्ञानं क्रिया देवी निरञ्जनम् । एतत्वयसमावेशः शिवो भैरव उच्यते ॥

.