पृष्ठम्:श्रीपरात्रिंशिका.pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८९
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

क्वचित्प्राणिनि स्थानान्तरसमुल्लास्यपि भवति, यथा ध्वांक्षेषु ककारटकाररेफा उच्चरन्तः सर्व एवोदरपायुकण्ठतालुनिर्वर्त्या उपलभ्यन्ते अव्यक्तत्वेऽपि त एव तावन्तः शब्दत्वात्, शब्दस्य च मातृकातिरेकिणोऽभावात्, मातृकातिरेक्यपि अव्यक्तः शब्दोऽनुपयोगान्न संगृहीतः इत्यप्ययुक्तम्, अव्यक्तवर्णरूपस्यापि मौरुजसामुद्रादिध्वनितस्य ह्लादपरितापकारित्वमपि अस्त्येव इति कोऽन्योऽभिमत उपयोगः, पारमेश्वरेऽपि अव्यक्तध्वनेर्मुख्यतयैव प्रायशो मन्त्रत्वं निरूपितम् - अर्धचन्द्रादीनामेव मन्त्रव्याप्तिसारत्वेना-भिधानात्, तत्र च

ननु च ते हि ककाराद्या अव्यक्तत्वान्न कण्ठादिस्थानोच्चार्यकादिनुत्या इत्यत आहाव्यक्तत्वेऽपीति । २ अथ चोपयोगे सति सर्व सुस्थं मातृकया च सर्वथोपयोग इत्युक्त्या ध्वांक्षादिषु हि ककाराद्या विजातीयाः सन्तोऽपि अनुपयोगानोक्ता इति मातृकातिरेकी शब्दोऽवश्यमभ्युपगन्तव्य इति कथं त एवेति कथनमित्यत आह इत्यययुक्तमिति । ३ दण्डापूपन्यायोऽत्र बोध्यः । पं. ४ ग. पु. अत एव तावत्ते शब्दत्वादिति पाठः ।