पृष्ठम्:श्रीपरात्रिंशिका.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८८
परात्रिंशिका

तस्यैवंविधचित्रतररूपावभासेन को वा कियान् वा प्रयासः, अत एव सर्वे पाषाणतरुतिर्यङ्मनुष्यदेव रुद्रकेवलिमन्त्र तदीशतन्महेशादिका एकैव पराभट्टारिकाभूमिः सर्वसर्वात्मनैव परमेश्वररूपेणास्ते इति, तद्विचित्रस्थानादिसार्वात्म्यनिर्विशिष्टस्फुटास्फुटव्यक्ताव्यक्तादिरूपशब्दशरीरा 'मन्त्रवीर्यम्' इति गीयते, तथाहि वीणाविपञ्चीकच्छपिकामुरुजादिषु स एव स्वनोऽन्यतोऽन्यतो देशादप्युद्भवन्नेकस्थान इति कथ्यते, एवं तारमध्यमन्द्रेष्वपि तत्स्थायिस्वरै- कात्म्येऽपि वाच्यम् , अत एवं च स एव वर्णः १ यदुक्तं वर्णशिक्षायाम् 'स प्राण उत्थितो नाभेरुरःकण्ठशिरोधृतः । मृदुमध्योत्तमैर्याति मन्द्रादिध्वनिनादताम् ॥ मन्द्रमध्यमतारैर्हि ध्वनिभिः सवनत्रये । शंसन्ति शास्त्रे गायत्रं त्रैष्टुभं जागतं क्रमात् ॥' इति। २ यथा तारमध्यमन्द्रादिभेदेऽपि स्वर एक एव स्थायिरूपः ।

३ सर्वस्य सर्वात्मकत्वात् ।