पृष्ठम्:श्रीपरात्रिंशिका.pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६५
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

रेणाकुलमपि तुर्यातीतं नाम न किंचित् - सौषुप्तपदाविष्टत्वात् , तुर्यानन्तरताया अपि समानत्वात् , विमर्शशक्तिश्च परा परमेश्वरी भैरवभट्टारकस्य निरतिशयस्वातंत्र्यात्मिका पूर्णकृशतदुभयात्मतदुभयरहितत्वेनावतिष्ठते, तत्र यद्यपि

तत्र कलनास्मिका शक्तिर्न स्यात् तदा तुर्यातदतीतयोः को विशेषः स्यादित्यर्थः । तथैव स्पन्दशास्त्रे

तदा तस्मिन्महाव्योम्नि प्रलीनशशिभास्करे ।
सौषुप्तपदवन्मूढः प्रबुद्धः स्यादनावृतः ।'

इति । तथा

'शक्त्या गर्भान्तवर्तिन्या शक्तिगर्भ परं महः ।'

इत्यभिप्रायः ।

१ यदुक्तं राजकमङ्खेन स्तुतौ

एकस्त्वं त्रिनयन दृश्यसेऽधिकर्तुं
ज्ञातुं वा त्रिभुवनमीश्वरः प्रकाशः ।
तादात्म्यं विवृतवती विमर्शशक्तिभैदेऽपि प्रथयति तेन भेददोषम् ॥'

इति ।

२ सर्वस्य स्वात्मान्तःक्रोडीकृत्य वर्तमानत्वात् पूर्णा स्वस्वरूपव्यतिरिक्तस्य भारीभूतस्य कस्यचिदपि सत्ताभावात् कृशपूर्णत्वं व्यतिरिक्तणोपपद्यते कृशत्वं चेत्यतस्तदुभयात्मकत्वं तदुभयराहित्यं च ।