पृष्ठम्:श्रीपरात्रिंशिका.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६६
परात्रिंशिका

न कश्चिदत्र क्रमयोगपद्योदयकलङ्कः प्रोक्तोपदेशनयेन एतावत्याः पराभट्टारिकासंविदोऽनन्तागामिप्रलयोदयात्मकस्वस्वभावविमर्शकघनत्वादिति

'स्वतन्त्रः परिपूर्णोऽयं भगवान्भैरवो विभुः ।'
तन्नास्ति यन विमले भासयेत्स्वात्मदर्पणे ॥'

इति नीत्या क्रमयोगपद्यासहिष्णुस्वात्मरूपमध्य एव यावत् क्रमाक्रमावभासः तावत् तदनुसारेणायं क्रमो विचारणीयः, अक्रमस्य तु तत्पूर्वकेण संविद्येव भावात्प्रेतिपादनाय अस्तु- १ क्रमयोगपद्योदयो हि सृष्टयाद्यधीनः, सृष्टवादयश्च स्वस्वभावविमर्श एवेति तात्पर्यम् । एतावत्या इति पूर्णकृशेत्यादिपरिमाणायाः । स्वातन्त्र्यं चास्यैतदेव- यत्सृष्टयादिभेदाभासेऽपि ऐतदात्म्यमिति, तत्र हेतुः-परिपूर्ण इति, भेदस्यापि प्रकाशानन्यत्वादिति भावः ।

२ न चैतन्मन्तव्यं - क्रमे हि स्वातन्त्र्यखण्डना यौगपद्यं कथं न स्यात् इति क्रमापेक्षतयैव योगपद्यमित्यदोषः ।

३ यदि च क्रमो विचारणीयः तर्हि अक्रमोऽप्येवं विचारणीय इत्यतोऽक्रमेत्यादि।

४ कथं तर्हि क्रमाक्रम इत्यत्रक्रमोच्चारणमित्युच्यते - प्रतिपादने त्यादि।