पृष्ठम्:श्रीपरात्रिंशिका.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११४
परात्रिंशिका

सर्वात्मनि, यथोक्तं शिवदृष्टौ

'[१]आत्मैव सर्वभावेषु स्फुरनिर्वृतचिद्वपुः[२]
अनिरुद्धेच्छाप्रसरः प्रसरदृष्क्रियः शिवः ॥'

इति । यथोक्तं स्पन्दे

'यत्र स्थितमिदं सर्वं.......।'

इति । एवं स्वात्मन्येव प्रभास्वरे प्रकाशनेन ध्रियमाणान् भावान् धारयति स्वयमप्रकाशीभावेन-जडतास्वभावे[३]दंभावास्पदताप्रापणेन प्रकाशयति परमेश्वर एव, पुनरपि अहंभावेनैव आच्छादयति । तदियं भगवत्सदाशिवेशदशा शुद्धविद्यामयी एकेन णिचा ध्वनिता, तत्रापि च यत् इदन्ताया अहन्तया आच्छादनं तदाच्छा-


  1. आस्मा-स्वस्वभावः।
  2. चिदपुरिति आस्मसास्कृतसमस्तवेद्यार्थः ।
  3. स्वभावेदंभावेति - यदुक्तं प्रत्यभिज्ञायाम्

    'इदंभावोपपन्नानां वेद्यभूमिमुपेयुषाम् ।
    भावानां बोधसारस्वाद्यथावस्त्ववलोकनात् ।।'

    इति ।