एतत् पृष्ठम् परिष्कृतम् अस्ति
११४
परात्रिंशिका
सर्वात्मनि, यथोक्तं शिवदृष्टौ
इति । यथोक्तं स्पन्दे
'यत्र स्थितमिदं सर्वं.......।' |
इति । एवं स्वात्मन्येव प्रभास्वरे प्रकाशनेन ध्रियमाणान् भावान् धारयति स्वयमप्रकाशीभावेन-जडतास्वभावे[३]दंभावास्पदताप्रापणेन प्रकाशयति परमेश्वर एव, पुनरपि अहंभावेनैव आच्छादयति । तदियं भगवत्सदाशिवेशदशा शुद्धविद्यामयी एकेन णिचा ध्वनिता, तत्रापि च यत् इदन्ताया अहन्तया आच्छादनं तदाच्छा-