पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ श्रीपानन्दमछाकाच्यम् ॥ श्रीजिनेन्द्र- यदहिस्पर्शनान्मेरु-बिलोलैः सानुबाहुभिः । धन्यम्मन्यो ननतेय, तं चीरस्वामिनं नुमः ॥ २७ ॥ सर्वे भावा यत्प्रभावा-दुद्गीर्यन्ते जिनैरपि । शब्दब्रह्मस्वरूपेयं, जयति श्रुतदेवता ॥ २८ ॥ जयन्ति गणभृश्येष्ठाः, पुण्डरीकादयो जने । महानन्दप्रकरणे, नान्दी यवादशामभूत् ।। २९ ॥ चतुर्विंशतितीर्थेश-चरितामृतसागरे । मद्गीमिथ्यापथनान्ता, नाति श्रान्तिमलपिछदे ॥३०॥ मदद्विपारिसिंहस, जिनदत्तगुरोर्गुरुम् । प्राप्य प्रसादप्रासाद-मुचैरर्थममुं श्रये ॥ ३१ ॥ स्वगुरुपरम्परावर्णनम् श्री नागेन्द्र पुलाराम-मण्डनं चन्दनयत् । गच्छा श्री'वायटीयोति, गौरसारभगौरवः ॥ ३२ ॥ गच्छेऽस्मिन् समजायन्त, श्रीमदूराशिलसूरयः । न चर्यद्गुणाः केपां, जिहादोलासु खेलनम् ? ॥ ३३ ॥ सूरि श्रीजीवदेवास-स्तत्पट्टोदयपर्वतम् । प्राण्यार्कवद् गवां भारै-जंगद्भावानभासयत् ॥ ३४ ॥ सूरिः श्रीजिनदत्ताख्या, प्रख्यातस्तत्पदेऽभवत् । भन्यानां भवदापार्ति-र्ययो यद्वचनामृतः ॥३५॥ नामभित्रिभिरेभिः स्यु-भूयो भूयोऽपि सूरयः । गच्छेऽस्मिन् यत्सरे वर्षा-शीतोष्णाः समया इव ॥ ३६॥ आनुपूाऽनया श्रेयो-राशिः श्रीराशिलो गुरू। भूयोऽभवद् भयारण्ये, पुण्ययाणीसुधासरः ॥ ३७ ॥ ते कदापि चतुर्मास-कल्पकल्पनया स्थितिम् । अकल्पयनिलाऽऽकल्प-फल्पे ऽणहिलपत्तने ॥ ३८ ॥ १-'जनैरपि । २ संसारवानानलसन्तापः ।