पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८८ चतुर्विशतिजिनेन्द्रसशिप्तचरितानि [२४ श्रीमहावीर भयत्प्रभाप्रभावेण, स यथा विफलो भवेत् ।। २८१ ॥ खाम्पूचे शक केनापि नायुः सन्धीयते शचित । दुःपमाभावनो बाधा, भाविनी मम शासने ।। २८२ ॥ प्रबोध्येति सुधर्मेश, त्रिंशद् वर्षाणि केवलात् । सार्द्धपण्मासहीनानि, प्रपाल्य परमेश्वरः ॥ २८३ ॥ द्वासप्ततिवत्सरायुः, पर्यशासनमास्थितः । कृतपठनपा मुक्ति-मेकाकी समुपेयिवान् ।। २८४ ।।-युग्गम् निशि तस्यां कृतो देव-रुद्योतो रखदीपकैः । प्रतिवर्ष तदाऽव, विश्वे दीपोत्सवोऽभवत् ॥ २८५ ॥' त्रिंशद्वर्षी माईस्थये द्वि-चत्वारिंदा समा व्रते । द्वासप्ततिवर्षाणीति, सर्वायुश्चरमाईतः ।। २८६ ॥ गते श्रीपार्धनिर्वाणा , साढ़े वर्षशतद्वये । श्रीचीरस्वामिनो जज्ञे, महानन्दपदोदयः ॥२८७ ॥ आनन्दावादसीमा सुजनजनहुदा भाग्यसौभाग्यसीमा विश्वालीलोचनानां परमशमरसस्साद्भुतैश्चर्यसीमा । धर्मस्योडाससीमा शिवसुखपटली संश्योपायसीमा श्राद्धानां शर्म संवर्द्धयत जिनविभोर्वर्द्धमानस्य मूर्तिः ॥ २८८ ।। इति वायटगच्छीयभीजिनदससूरिशिष्यश्रीगदमरचन्द्रगहाकविविरचिते चतुर्विशति- निनेन्द्रसहितपरिते चतुर्विंशतितम श्रीमहावीरनिगपरित समाप्तम् ।।