पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेन्द्रचरित्रम् ] क-परिशिष्टम् ५०६ श्रीषेणाद्यान् पूर्वभवा-नाख्यदागामिनस्तथा । शान्तिनाथभवं याव-दचलोऽमिततेजसे || ९७ ॥ शान्तिनाथभवे सूचं, भाषिनं विजयं नृपम् । तं चैव गणमृज्येष्ठ, शशंसाऽमिततेजसः ॥ ९८॥ तभिशम्य मुनि नखा, विजया-मिततेजसाँ। विधिवद् द्वादशविध, संश्रितौ श्रावकवतम् ॥ १९ ॥ कपिलादिभवान् स्मृत्वा-शनिघोषो विरागवान् । अचलर्षियदोपान्ते, प्रवज्या प्रतिपन्नवान् ।। १०० ।। मननी विजयस्यापि, तत्र प्राप्ता स्वयम्प्रभा। अचलस्य यतीन्द्रस्य, पादान्ते व्रतमग्रहीत् ॥ १०१॥ विजयोऽमिततेजास्ती, विद्याधरनरेश्वरी ! सर्वेऽप्यन्ये मुनि नत्या, ययुः स्थाने निजं निजम् ॥ १०२॥ अन्यदा 'गन्दा धने, विजया-अमिततेजसौ । शाश्वतामहतो नन्तु-मुमौ सम्भूय जग्मतुः ॥ १०३ ॥ शाश्वताईत्प्रणामान्ते, तो बने गिन्नपश्यताम् । चारणौ "विमलमति-महामत्यालयों मुनी ॥ १०४॥ तौ नत्वा ज्ञानिनी पृष्टा बाचख्यत्तुपी तयोः । पेंडिशतिदिनान्येव, शेषमायुयोरपि ॥ १०५॥ इति नत्वा मुनी नत्या, विजया-अमिततेजसी । पुरं निज निज प्राप्ती, धर्मोपक्रमतत्परौ ।। १०६ ।। चैत्येष्वष्टादिकां कृत्या, नौ राज्यं न्यस्य पुत्रयोः । प्रीत्याऽभिनन्तनजगन्-नन्दनान्ते श्रितो ब्रतम् ॥ १०७ ॥ तौ पादपोपगमना-नशनं चक्रतस्ततः । तदा च पितरेश्वर्य, ससार विजयो मुनिः ।। १०८ ।। यादृक् पिता त्रिपृष्टो मे, भृयासमहमीरशः। ससरतेश्वर इति, निदान विततान सः॥ १०९ ॥ १क-चला-मितेतजसो'। इफ-'मत्वा । ३ क-'स्थान निजं निमः। ४ स-विपुलमति- ५ क-पत्रिंशतं दिना, ६ यानुदेवसम्बन्धि ।