पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९१ 1 जिनेन्द्रचरित्रम् ] क-परिशिष्टम् यशोमुख्याः प्रभोरासन् , पञ्चाशद् गणधारिणः । बभूव चैत्यवृक्षस्तु, पट्कार्मुकशतोवतः ॥ १७॥ पातालखिमुखो यक्ष-स्तानो मकवाहनः । दक्षिणर्चाहुभिः सन-पा-राशासितैत्रिभिः ॥१८॥ बामैनकुल-फलका-अक्षसूत्रप्रवरैर्युतः। अडशा नाना देवी तु, गौरागी कमलासना ।। १९ ॥ दक्षिणे फलक यामे, त्वङ्कुशं दधती करे । अनन्तस्वामिनस्तीर्थो-पन्ना शासनदेवता ॥ २० ॥ उदपद्यन्त पट्पष्टि-सहस्राणि सुसाधयः । द्वापप्टिस्तु सहस्राणि, प्रतिन्यो विमलव्रताः ॥ २१ ॥ सतुर्दशपूर्वभूता, शतान्येव पुनर्नय । अवधिज्ञानयुक्तानि चत्वारिंशच्छत्तानि तु ॥२२॥ मनःपर्ययिणः पञ्च-चत्वारिंशच्छती तथा । सहस्राणि पुनः पश्च, केवलज्ञानशालिनः ॥ २३ ॥ अष्टौं तथा सहस्राणि, व्यक्त क्रियशक्तयः । जयः सहस्रा द्विशती, बादलब्धिविराजिताः ॥२४॥ श्रावका लक्षद्वितयं, पट्सहस्रसमन्वितम् । श्राविकास्तु चतुर्दक्षी, चतुर्दशसहस्रघुक् ॥ २५॥ अनन्तस्वामिनः सर्व-परिवारोऽयमित्यभूत् । बतात् तु सस सार्दानि, पर्पलक्षाणि जज्ञिरे ॥ २६ ॥ चैत्रस्य शुक्लपञ्चम्या, रेवती शशिनि भिते । 'सम्मेत पर्वते साधु-सहस्रः सप्तभिः सह ।। २७॥ विहितानशनो मास-मध्यस्थः प्रथमेऽहनि । अनन्तनाथी भगवा-जवाप पदमव्ययम् ॥ २८॥-गुग्मम् कौमारे वर्षलक्षाणि, सप्त सार्दानि जज्ञिरे । दश पञ्च च वीणां, लक्षाणि शितिरक्षणे ॥ २९ ॥ १ स-पचे शासनदेवते'।