पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्विशति जिनेन्द्रसद्धिाचरितानि [१४ श्रीअनन्त- 'जम्बूद्वीपेऽत्र 'भरत', 'विनीता' विद्यते पुरी । सिंहसेनो नृपस्तखां, सुयशास्तत्प्रियाऽभवत् ॥ ४ ॥ इतः पद्मरथक्ष्माप-जीचः स 'प्राणता'श्युतः। श्रावणश्यामसप्तम्यां, 'पोणे तत्कुक्षिमाश्रयत् ॥ ५॥ वैशाखे बहुले पक्षे, प्रयोदश्यां च पौप्णभे । मीनराशिगते चन्द्रे, साऽमृत सुयशाः सुतम् ॥ ६॥ चतुर्दशं तीर्थकर-मिक्ष्वाकु कुलभास्करम् । काश्चनप्रतिभच्छायं, श्येनलाञ्छनलाञ्छितम् ॥७॥-युग्मम् अनन्तं जितवान् वैरि-चलं गर्भागतेय यत् । अनन्तजिदिति प्राह, बस नाम ततः पिता ॥ ८॥ क्रमेण प्राप्ततारुण्या, पञ्चाशद्धनुरुनवः । पितुराग्नहतो राज-कन्याः पर्यणयत् प्रभुः ॥९॥ जन्मतो वर्षलक्षेपु, गतेप्यष्टिमप्वय । प्रभुः पित्राऽऽग्रहाद् राज्य-भारमङ्गीचकार सः॥१०॥ राज्यं पश्चदश घर्प-लक्षाः प्रभुरपालयत् । तत: 'सागरदत्तारूपा, निष्क्रान्तः शिचिका 'श्रितः ॥११॥ वैशाखे मासि बहुले, पक्षे चतुर्दशीतिथौ । पौणधिष्ण्याश्रये शीत-करे पश्चिमवासरे ॥ १२ ॥ राज्ञां सह सहलेण, 'सहस्रानवणे' पने । कृतपयतयाः खामी, प्रवज्या प्रतिपन्नवान् ॥ १३॥-युग्मम् नगरे 'वर्द्धमाना हे, विजयो:शवेश्मनि । पारणं परमानेन, द्वितीयेऽहि विभुळधात् ।। १४ ।। विहृत्यान्यन्त्र छनस्थ-त्रिवर्षी पुनरेव च । 'सहसाम्रचणा'राम-मोकगुतले स्थितः ॥ १५ ॥ वैशाखस्य कृष्णचतुर्दश्यां पौप्णाश्रिते विधी । पूर्वाद्धे केवलज्ञानं, अपेदेऽनन्तजिजिनः ॥ १६ ॥-युग्मम् १ रेवल्लाम् । २ क-'ततः । ३ स-जिद प्रभु