पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-जिनेन्द्र चरित्रम् ] क-परिशिष्टम् 'जम्बूद्वीपेऽत्र भरते-ऽभूत् 'भदिलपुरे पुरे । राजा दृढरथी नाम, नन्दा तस्य प्रियाजनि ।। ४ ।। विंशतिसागरानायुः, अपाल्य 'प्राणताच्युतः। वैशाखस्य कृष्णपक्ष्या, पूर्वापाढास्थिते विधौ ॥ ५॥ नन्दाकुक्षि पद्मोत्तर-भूपजीयो च्यभूपयत् । माघस्य कृष्णद्वादश्यां पूर्वाषाढाभिषे च मे ॥६॥ विधौ धनगतेऽसूत, सुतं नन्दा सुवर्णभम् । 'इक्ष्वाकु वंश्यं दशमा-ईन्तं थीवत्सलाञ्छनम् ॥७॥-विशेषफम् गर्भस्थ तत्र नन्दायाः, स्पर्शाद दाहज्वरातुरः। शैत्यं पिताऽऽप तेनैतं, स चक्रे शीतलाभिधम् ॥ ८॥ प्रभुः पूर्वसहस्रेषु, गतेपु पश्चविंशतौ । युवा नवतिचापोचः, पित्रा राज्ये न्यवेश्यत ॥९॥ ततः पूर्वसहस्राणि, पश्चाशत् परमेश्वरः। जनफेनार्पितं राज्यं विधिवत् पर्यपालयत् ॥ १० ॥ माघस्य कृष्णद्वादश्यां, पूर्वापाढागते विधौ । 'चन्द्रप्रभा'ssoयां शिविका-मारूढो निर्ययौ पुरः॥ ११ ॥ राज्ञां सह सहस्रण, 'सहस्रानबणे वने । अपराहे कृतपठः, प्रवज्यां प्रभुरग्रहीत् ॥ १२ ॥ द्वितीयेहि 'रिष्टपुरे, पुनर्वसुनृपौकसि । चकार परमानेन, पारणं शीतलप्रभुः ॥ १३ ॥ छनस्थोऽन्यत्र श्रीन मासान्, विहृत्य पुनरागतः । 'सहस्राप्रवणे प्लक्ष-दुमूले प्रतिमाश्रितः ॥ १४ ॥ पौपकृष्णचतुर्दश्यां, पूर्वापाढागते विधौं । पूर्वाहे केवल प्राप, कृतषष्ठतपाः प्रभुः ॥ १५ ॥ नैत्यद्धरीत्यधिक-दशचापशतोन्नतः। . एकाशीतिरानन्दायाः, प्रभोगणभृतस्तथा ॥१६॥ १ क-भदिलपुरे'। २ स-तस नन्दा'। ३ क-विधिवत् अमः'।