पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०६ श्रीपद्मानन्दमहामाध्यम [श्रीजिनेन्द्र- तत्रादिदेवं दिविपनिकायै-श्चतुःप्रकार परितः परीवम् । न्यमालपद् भूमिविशुस्तमेव, 'विश्राणनायैः सुकृतैरिखासौ ॥१८॥ रसत्रयप्रातिश्वप्रयन-भेवं नरेशो भुवननयेशम् । प्रदक्षिणास्त्रिनिकपा प्रतेने, मायेच वर्णो वरमन्नयन्त्रम् ॥ १६९॥" पञ्चेन्द्रियाणि विषयानपि पञ्च जिन्ना योऽपश्चयत् किमपि पञ्च महानवानि । चक्री स पञ्चमगतिप्रयतस्य तस्स 'पञ्चाङ्गचुम्बितधरोऽश्चयत् प्रणामम् ॥ १७ ॥ भरतकृता प्रभोः स्तुतिः आत्मनो जनकमासकेवलं, ते युगादिजिनमान सुरैः । सन्निभारय भरतश्विरन् प्रभं, स्तोतुमारभत भूरिभक्तिभृत् ।। १७१॥ प्राकारत्रयमध्यमञ्जुलमणीनद्धोरुवेदीतले 'विषड्ज्यस्तसपादविष्टरचतुःसिंहासनाध्यासिनम् । वो विधेश चतुर्मुखं सुखनिधे ! धर्मोपदेशोद्यतं सर्यात्मीयविभूतिभृषिसमिति ध्यायन "विमाय ! स्तुवे ॥१७२॥" स्वर्गिश्रेणिविकीर्णपुष्पनिकरण्याजेन पुप्पायुधो निर्जित्येय युधायुधानि तरसा नाथ ! त्वया त्याजितः। कर्तुं तजयघोषणामिव जगत्कोडे परिकीडिनी देवैर्दुन्दुमिरौहतः प्रमुदितस्त्वद्देशनासंसदिः ॥ १७३ ।। त्वद्धामण्डलमारोहलहरीसंपलेपणाऽपिवद- द्विर्भावारुणपछवावलिरसौं खामिनशोकद्रुमः । रागो रागवशात् त्वया प्रतिहत्स्फूर्तिः स मूर्ति गतः सेवां कर्तुमिव त्रिविष्टपपते ! पृष्ठं तवाशिथिये ।। १७४ ।। मध्ये देह मनर्गले विमलतां कृत्वा सतचाश्रय शुलध्यानमहस्तवेश ! दशमद्वारान्तरालोद्गतम् । १ दानाद्यैः । २ धर्मः ! ३ उपजाति । ४ क-वर्णोचर० । ५ उपजातिः। ६६सयुटर जानुयशीप० । ७ वसन्ततिलका । ८ रथोद्धता । ९ चतुर्दिनु न्यस्तपादासमः । १० क- 'सितम्। ११ फ-निनाय । १२ अतः परः १८१समपर्यन्तानि पद्यानि मादलविक्रीवित- छन्दसि सन्ति । १३ चामविजयः। १४ क-दो नाममुदितैः । १५फ-मधिर्मले'।