पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपद्मानन्दमहाकाव्यम् तेऽप्याहुः स सहस्रांशी, सहस्राक्षदिशं श्रिते । स्वामी ययौ वनादसात, पार्वणेन्दुरियाम्मरात् ॥ ३७२ ॥ यावदायसर्थ देव-स्सायाम इति शंसितम् । वायत् प्राप्तः स्वयं देवः, सेयनोत्कण्ठया प्रभोः ।। ३७३ ॥ प्रभोर्दर्शनवचनात् सोनन्देयस्स विलापः तदाकर्ण्य वचः कर्ण-कील 'तक्षशिला पतिः । सद्यो दधार धीरोपि, नेने पाप्पजलाविले ॥ ३७४ ॥ दध्यौ वन्ध्योगमथेति, घेतितं न मयेति यत् । व्रतात् प्रभृति नेकत्रा स्थिति कुरुते प्रभुः ॥ ३७५ ॥ अपि प्रकृतिपौराद्याः, प्राप्नुवन्तु पवित्रताम् । इति तैः सह वन्दिप्ये, सामिपादान् दिनोदये ।। ३७६ ।। मनोरथो मे भयोऽय-मभाग्योद्धातपाततः । हाहा हतोऽस्म्यहं पापो, निष्घुण्यानां शिरोमणिः ॥ ३७७ ।।-युग्मम् विलम्यकारिणं घिग मां, लोकानुग्रहकारणात् । परार्थकाम्यया मौल्याव, स्वार्थभ्रंशोऽभवन्मम ।। ३७८ ।। धिग् मामघुद्धिमूर्द्धन्यं, धिर धिर मां च प्रमादिनम् । यत् तातचरणाम्जाना-मर्चनेनामि पश्चिवः ॥ ३७९ ॥ घृधा मम समुत्पन्नो, विभमो यद् विभावरी । तद् दिनं दृश्यते परिस-निनो विश्वप्रकाशकः ।। ३८० ।। भास्वन्तं सचितारं तं, विनाहरपि शर्वरी । जाता यन्मे तमोजालैः, किलान्धाः सकला दिशः ॥ ३८१ ।। प्रमादसदनं स्वामिन् , यद्यहं तत् कथं त्वया । नात्मपुत्रप्रमोदाय, दिममेकमपि स्थितम् ।। ३८२ ॥ लोकेष्यपत्यवत् पूर्व, ममत्वमकथा यथा । साम्प्रतं निर्ममत्वं ते, तथाऽपत्येषु लोकवत् ।। ३८३ ।। र पूर्व दिशम् । २ पूर्णिमाचद्र । ३ स-देव11४ फ-'प्रमो।। ५ ख --किन वसति। ६क-'प्रकृतम्। ७ अभाग्यारम्भपतनात् ।